Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नित्यो हि यस्य महिमा न हि मानमेति
स त्वं महेश भगवन्मघवन्मुखेड्य ।
उत्तिष्ठ तिष्ठदमृतैरमृतैरिवोक्तै-
-र्गीतागमैश्च पुरुधा पुरुधामशालिन् ॥ १ ॥
भक्तेषु जागृहि मुदाऽहिमुदारभावं
तल्पं विधाय सविशेषविशेषहेतो ।
यः शेष एष सकलः सकलः स्वगीतै-
-स्त्वं जागृहि श्रितपते तपते नमस्ते ॥ २ ॥
दृष्ट्वा जनान् विविधकष्टवशान् दयालु-
-स्त्र्यात्मा बभूव सकलार्तिहरोऽत्र दत्तः ।
अत्रेर्मुनेः सुतपसोऽपि फलं च दातुं
बुद्ध्यस्व स त्वमिह यन्महिमानियत्तः ॥ ३ ॥
आयात्यशेषविनुतोऽप्यवगाहनाय
दत्तोऽधुनेति सुरसिन्धुरपेक्षते त्वाम् ।
क्षेत्रे तथैव कुरुसञ्ज्ञक एत्य सिद्धा-
-स्तस्थुस्तवाचमनदेश इनोदयात्प्राक् ॥ ४ ॥
सन्ध्यामुपासितमजोऽप्यधुनाऽऽगमिष्य-
-त्याकाङ्क्षते कृतिजनः प्रतिवीक्षते त्वाम् ।
कृष्णातटेऽपि नरसिंहसुवाटिकायां
सारार्तिकः कृतिजनः प्रतिवीक्षते त्वाम् ॥ ५ ॥
गान्धर्वसञ्ज्ञकपुरेऽपि सुभाविकास्ते
ध्यानार्थमत्र भगवान् समुपैष्यतीति ।
मत्वास्थुराचरितसन्नियताप्लवाद्या
उत्तिष्ठ देव भगवन्नत एव शीघ्रम् ॥ ६ ॥
पुत्री दिवः खगगणान् सुचिरं प्रसुप्तान्
उत्पातयत्यरुणगा अधिरुह्य तूषाः ।
काषायवस्त्रमपिधानमपावृणूद्यन्
तार्क्ष्याग्रजोऽयमवलोकय तं पुरस्तात् ॥ ७ ॥
शाटीनिभाभ्रपटलानि तवेन्द्रकाष्ठा-
-भागं यतीन्द्र रुरुधुर्गरुडाग्रजोऽतः ।
अस्माभिरीश विदितो ह्युदितोऽयमेवं
चन्द्रोऽपि ते मुखरुचिं चिरगां जहाति ॥ ८ ॥
द्वारेऽर्जुनस्तव च तिष्ठति कार्तवीर्यः
प्रह्लाद एष यदुरेष मदालसाजः ।
त्वां द्रष्टुकाम इतरे मुनयोऽपि चाहं
उत्तिष्ठ दर्शय निजं सुमुखं प्रसीद ॥ ९ ॥
एवं प्रबुद्ध इव संस्तवनादभूत्स
मालां कमण्डलुमधो डमरुं त्रिशूलम् ।
चक्रं च शङ्खमुपरि स्वकरैर्दधानो
नित्यं स मामवतु भावितवासुदेवः ॥ १० ॥
इति श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्त प्रबोधः ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

