Sri Dattatreya Sahasranama Stotram 2 – श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २


कदाचिच्छङ्कराचार्यश्चिन्तयित्वा दिवाकरम् ।
किं साधितं मया लोके पूजया स्तुतिवन्दनैः ॥ १ ॥

बहुकाले गते तस्य दत्तात्रेयात्मको मुनिः ।
स्वप्ने प्रदर्शयामास सूर्यरूपमनुत्तमम् ॥ २ ॥

उवाच शङ्करं तत्र पतद्रूपमधारयत् ।
प्राप्यसे त्वं सर्वसिद्धिकारणं स्तोत्रमुत्तमम् ॥ ३ ॥

उपदेक्ष्ये दत्तनामसहस्रं देवपूजितम् ।
दातुं वक्तुमशक्यं च रहस्यं मोक्षदायकम् ॥ ४ ॥

जपेषु पुण्यतीर्थेषु चान्द्रायणशतेषु च ।
यज्ञव्रतादिदानेषु सर्वपुण्यफलप्रदम् ॥ ५ ॥

शतवारं जपेन्नित्यं कर्मसिद्धिर्न संशयः ।
एकेनोच्चारमात्रेण तत्स्वरूपं लभेन्नरः ॥ ६ ॥

योगत्रयं च लभते सर्वयोगान्न संशयः ।
मातृपितृगुरूणां च हत्यादोषो विनश्यति ॥ ७ ॥

अनेन यः किमित्युक्त्वा रौरवं नरकं व्रजेत् ।
पठितव्यं श्रावितव्यं श्रद्धाभक्तिसमन्वितैः ॥ ८ ॥

सङ्करीकृतपापैश्च मलिनीकरणैरपि ।
पापकोटिसहस्रैश्च मुच्यते नात्र संशयः ॥ ९ ॥

यद्गृहे संस्थितं स्तोत्रं दत्तनामसहस्रकम् ।
सर्वावश्यादिकर्माणि समुच्चार्य जपेद्ध्रुवम् ॥ १० ॥

तत्तत्कार्यं च लभते मोक्षवान् योगवान् भवेत् ॥

ओं अस्य श्रीदत्तात्रेयसहस्रनामस्तोत्रमन्त्रस्य ब्रह्मऋषिः । अनुष्टुप्छन्दः । श्रीदत्तपुरुषः परमात्मा देवता । ओं हंसहंसाय विद्महे इति बीजम् । सोऽहं सोऽहं च धीमहि इति शक्तिः । हंसः सोऽहं च प्रचोदयात् इति कीलकम् । श्रीपरमपुरुषपरमहंसपरमात्मप्रीत्यर्थे जपे विनियोगः ॥

अथः न्यासः ।
ओं हंसो गणेशाय अङ्गुष्ठाभ्यां नमः ।
ओं हंसी प्रजापतये तर्जनीभ्यां नमः ।
ओं हंसूं महाविष्णवे मध्यमाभ्यां नमः ।
ओं हंसैः शम्भवे अनामिकाभ्यां नमः ।
ओं हंसौ जीवात्मने कनिष्ठिकाभ्यां नमः ।
ओं हंसः परमात्मने करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिषडङ्गन्यासः ।
ओं हंसः सोऽहं हंसः इति दिग्बन्धः ॥

ध्यानम् ।
बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं
शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् ।
ब्रह्माद्यैः सनकादिभिः परिवृतं सिद्धैर्महायोगिभिः
दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिनाम् ॥ १ ॥

ओं श्रीमान्देवो विरूपाक्षो पुराणपुरुषोत्तमः ।
ब्रह्मा परो यतीनाथो दीनबन्धुः कृपानिधिः ॥ १ ॥

सारस्वतो मुनिर्मुख्यस्तेजस्वी भक्तवत्सलः ।
धर्मो धर्ममयो धर्मी धर्मदो धर्मभावनः ॥ २ ॥

भाग्यदो भोगदो भोगी भाग्यवान् भानुरञ्जनः ।
भास्करो भयहा भर्ता भावभूर्भवतारणः ॥ ३ ॥

कृष्णो लक्ष्मीपतिर्देवः पारिजातापहारकः ।
सिंहाद्रिनिलयः शम्भुर्व्यकटाचलवासकः ॥ ४ ॥

कोल्लापुरः श्रीजपवान् माहुरार्जितभिक्षुकः ।
सेतुतीर्थविशुद्धात्मा रामध्यानपरायणः ॥ ५ ॥

रामार्चितो रामगुरुः रामात्मा रामदैवतः ।
श्रीरामशिष्यो रामज्ञो रामैकाक्षरतत्परः ॥ ६ ॥

श्रीराममन्त्रविख्यातो राममन्त्राब्धिपारगः ।
रामभक्तो रामसखा रामवान् रामहर्षणः ॥ ७ ॥

अनसूयात्मजो देवदत्तश्चात्रेयनामकः ।
सुरूपः सुमतिः प्राज्ञः श्रीदो वैकुण्ठवल्लभः ॥ ८ ॥

विरजस्थानकः श्रेष्ठः सर्वो नारायणः प्रभुः ।
कर्मज्ञः कर्मनिरतो नृसिंहो वामनोऽच्युतः ॥ ९ ॥

कविः काव्यो जगन्नाथो जगन्मूर्तिरनामयः ।
मत्स्यः कूर्मो वराहश्च हरिः कृष्णो महास्मयः ॥ १० ॥

रामो रामो रघुपतिर्बुद्धः कल्की जनार्दनः ।
गोविन्दो माधवो विष्णुः श्रीधरो देवनायकः ॥ ११ ॥

त्रिविक्रमः केशवश्च वासुदेवो महेश्वरः ।
सङ्कर्षणः पद्मनाभो दामोदरपरः शुचिः ॥ १२ ॥

श्रीशैलवनचारी च भार्गवस्थानकोविदः ।
अहोबलनिवासी च स्वामी पुष्करणीप्रियः ॥ १३ ॥

कुम्भकोणनिवासी च काञ्चिवासी रसेश्वरः ।
रसानुभोक्ता सिद्धेशः सिद्धिमान् सिद्धवत्सलः ॥ १४ ॥

सिद्धरूपः सिद्धविधिः सिद्धाचारप्रवर्तकः ।
रसाहारो विषाहारो गन्धकादि प्रसेवकः ॥ १५ ॥

योगी योगपरो राजा धृतिमान् मतिमान्सुखी ।
बुद्धिमान्नीतिमान् बालो ह्युन्मत्तो ज्ञानसागरः ॥ १६ ॥

योगिस्तुतो योगिचन्द्रो योगिवन्द्यो यतीश्वरः ।
योगादिमान् योगरूपो योगीशो योगिपूजितः ॥ १७ ॥

काष्ठयोगी दृढप्रज्ञो लम्बिकायोगवान् दृढः ।
खेचरश्च खगः पूषा रश्मिवान्भूतभावनः ॥ १८ ॥

ब्रह्मज्ञः सनकादिभ्यः श्रीपतिः कार्यसिद्धिमान् ।
स्पृष्टास्पृष्टविहीनात्मा योगज्ञो योगमूर्तिमान् ॥ १९ ॥

मोक्षश्रीर्मोक्षदो मोक्षी मोक्षरूपो विशेषवान् ।
सुखप्रदः सुखः सौख्यः सुखरूपः सुखात्मकः ॥ २० ॥

रात्रिरूपो दिवारूपः सन्ध्याऽऽत्मा कालरूपकः ।
कालः कालविवर्णश्च बालः प्रभुरतुल्यकः ॥ २१ ॥

सहस्रशीर्षा पुरुषो वेदात्मा वेदपारगः ।
सहस्रचरणोऽनन्तः सहस्राक्षो जितेन्द्रियः ॥ २२ ॥

स्थूलसूक्ष्मो निराकारो निर्मोहो भक्तमोहवान् ।
महीयान्परमाणुश्च जितक्रोधो भयापहः ॥ २३ ॥

योगानन्दप्रदाता च योगो योगविशारदः ।
नित्यो नित्यात्मवान् योगी नित्यपूर्णो निरामयः ॥ २४ ॥

दत्तात्रेयो देवदत्तो योगी परमभास्करः ।
अवधूतः सर्वनाथः सत्कर्ता पुरुषोत्तमः ॥ २५ ॥

ज्ञानी लोकविभुः कान्तः शीतोष्णसमबुद्धकः ।
विद्वेषी जनसंहर्ता धर्मबुद्धिविचक्षणः ॥ २६ ॥

नित्यतृप्तो विशोकश्च द्विभुजः कामरूपकः ।
कल्याणोऽभिजनो धीरो विशिष्टः सुविचक्षणः ॥ २७ ॥

श्रीमद्भागवतार्थज्ञो रामायणविशेषवान् ।
अष्टादशपुराणज्ञो षड्दर्शनविजृम्भकः ॥ २८ ॥

निर्विकल्पः सुरश्रेष्ठो ह्युत्तमो लोकपूजितः ।
गुणातीतः पूर्णगुणी ब्रह्मण्यो द्विजसंवृतः ॥ २९ ॥

दिगम्बरो महाज्ञेयो विश्वात्माऽऽत्मपरायणः ।
वेदान्तश्रवणो वेदी कलावान्निष्कलत्रवान् ॥ ३० ॥

मितभाष्य मिताभाषी सौम्यो रामो जयः शिवः ।
सर्वजित् सर्वतोभद्रो जयकाङ्क्षी सुखावहः ॥ ३१ ॥

प्रत्यर्थिकीर्तिसंहर्ता मन्दरार्चितपादुकः ।
वैकुण्ठवासी देवेशो विरजास्नानमानसः ॥ ३२ ॥

श्रीमेरुनिलयो योगी बालार्कसमकान्तिमान् ।
रक्ताङ्गः श्यामलाङ्गश्च बहुवेषो बहुप्रियः ॥ ३३ ॥

महालक्ष्म्यन्नपूर्णेशः स्वधाकारो यतीश्वरः ।
स्वर्णरूपः स्वर्णदायी मूलिकायन्त्रकोविदः ॥ ३४ ॥

अनीतमूलिकायन्त्रो भक्ताभीष्टप्रदो महान् ।
शान्ताकारो महामायो माहुरस्थो जगन्मयः ॥ ३५ ॥

बद्धासनश्च सूक्ष्मांशी मिताहारो निरुद्यमः ।
ध्यानात्मा ध्यानयोगात्मा ध्यानस्थो ध्यानसत्प्रियः ॥ ३६ ॥

सत्यध्यानः सत्यमयः सत्यरूपो निजाकृतिः ।
त्रिलोकगुरुरेकात्मा भस्मोद्धूलितविग्रहः ॥ ३७ ॥

प्रियाप्रियसमः पूर्णो लाभालाभसमप्रियः ।
सुखदुःखसमो ह्रीमान् हिताहितसमः परः ॥ ३८ ॥

गुरुर्ब्रह्मा च विष्णुश्च महाविष्णुः सनातनः ।
सदाशिवो महेन्द्रश्च गोविन्दो मधुसूदनः ॥ ३९ ॥

कर्ता कारयिता रुद्रः सर्वचारी तु याचकः ।
सम्पत्प्रदो वृष्टिरूपो मेघरूपस्तपःप्रियः ॥ ४० ॥

तपोमूर्तिस्तपोराशिस्तपस्वी च तपोधनः ।
तपोमयस्तपःशुद्धो जनको विश्वसृग्विधिः ॥ ४१ ॥

तपःसिद्धस्तपःसाध्यस्तपःकर्ता तपःक्रतुः ।
तपःशमस्तपःकीर्तिस्तपोदारस्तपोऽत्ययः ॥ ४२ ॥

तपोरेतस्तपोज्योतिस्तपात्मा चात्रिनन्दनः ।
निष्कल्मषो निष्कपटो निर्विघ्नो धर्मभीरुकः ॥ ४३ ॥

वैद्युतस्तारकः कर्मवैदिको ब्राह्मणो यतिः ।
नक्षत्रतेजो दीप्तात्मा परिशुद्धो विमत्सरः ॥ ४४ ॥

जटी कृष्णाजिनपदो व्याघ्रचर्मधरो वशी ।
जितेन्द्रियश्चीरवासी शुक्लवस्त्राम्बरो हरिः ॥ ४५ ॥

चन्द्रानुजश्चन्द्रमुखः शुकयोगी वरप्रदः ।
दिव्ययोगी पञ्चतपो मासर्तुवत्सराननः ॥ ४६ ॥

भूतज्ञो वर्तमानज्ञ ह्येयज्ञो धर्मवत्सलः ।
प्रजाहितः सर्वहितो ह्यनिन्द्यो लोकवन्दितः ॥ ४७ ॥

आकुञ्चयोगसम्बद्धमलमूत्ररसादिकः ।
कनकीभूतमलवान् राजयोगविचक्षणः ॥ ४८ ॥

शकटादिविशेषज्ञो लम्बिकानीतितत्परः ।
प्रपञ्चरूपी बलवान् एककौपीनवस्त्रकः ॥ ४९ ॥

दिगम्बरः सोत्तरीयः सजटः सकमण्डलुः ।
निर्दण्डश्चासिदण्डश्च स्त्रीवेषः पुरुषाकृतिः ॥ ५० ॥

तुलसीकाष्ठमाली च रौद्रः स्फटिकमालिकः ।
निर्मालिकः शुद्धतरः स्वेच्छा अमरवान् परः ॥ ५१ ॥

उर्ध्वपुण्ड्रस्त्रिपुण्ड्राङ्को द्वन्द्वहीनः सुनिर्मलः ।
निर्जटः सजटो हेयो भस्मशायी सुभोगवान् ॥ ५२ ॥

मूत्रस्पर्शो मलस्पर्शोजातिहीनः सुजातिकः ।
अभक्ष्यभक्षो निर्भक्षो जगद्वन्दितदेहवान् ॥ ५३ ॥

भूषणो दूषणसमः कालाकालो दयानिधिः ।
बालप्रियो बालरुचिर्बालवानतिबालकः ॥ ५४ ॥

बालक्रीडो बालरतो बालसङ्घवृतो बली ।
बाललीलाविनोदश्च कर्णाकर्षणकारकः ॥ ५५ ॥

क्रयानीतवणिक्पण्यो गुडसूपादिभक्षकः ।
बालवद्गीतसन्दृष्टो मुष्टियुद्धकरश्चलः ॥ ५६ ॥

अदृश्यो दृश्यमानश्च द्वन्द्वयुद्धप्रवर्तकः ।
पलायमानो बालाढ्यो बालहासः सुसङ्गतः ॥ ५७ ॥

प्रत्यागतः पुनर्गच्छच्चक्रवद्गमनाकुलः ।
चोरवद्धृतसर्वस्वो जनताऽऽर्तिकदेहवान् ॥ ५८ ॥

प्रहसन्प्रवदन्दत्तो दिव्यमङ्गलविग्रहः ।
मायाबालश्च मायावी पूर्णलीलो मुनीश्वरः ॥ ५९ ॥

माहुरेशो विशुद्धात्मा यशस्वी कीर्तिमान् युवा ।
सविकल्पः सच्चिदाभो गुणवान् सौम्यभावनः ॥ ६० ॥

पिनाकी शशिमौली च वासुदेवो दिवस्पतिः ।
सुशिराः सूर्यतेजश्च श्रीगम्भीरोष्ठ उन्नतिः ॥ ६१ ॥

दशपद्मा त्रिशीर्षश्च त्रिभिर्व्याप्तो द्विशुक्लवान् ।
त्रिसमश्च त्रितात्मश्च त्रिलोकश्च त्रयम्बकः ॥ ६२ ॥

चतुर्द्वन्द्वस्त्रियवनस्त्रिकामो हंसवाहनः ।
चतुष्कलश्चतुर्दंष्ट्रो गतिः शम्भुः प्रियाननः ॥ ६३ ॥

चतुर्मतिर्महादंष्ट्रो वेदाङ्गी चतुराननः ।
पञ्चशुद्धो महायोगी महाद्वादशवानकः ॥ ६४ ॥

चतुर्मुखो नरतनुरजेयश्चाष्टवंशवान् ।
चतुर्दशसमद्वन्द्वो मुकुराङ्को दशांशवान् ॥ ६५ ॥

वृषाङ्को वृषभारूढश्चन्द्रतेजः सुदर्शनः ।
सामप्रियो महेशानश्चिदाकारोः नरोत्तमः ॥ ६६ ॥

दयावान् करुणापूर्णो महेन्द्रो माहुरेश्वरः ।
वीरासनसमासीनो रामो रामपरायणः ॥ ६७ ॥

इन्द्रो वह्निर्यमः कालो निरृतिर्वरुणो यमः ।
वायुश्च रुद्रश्चेशानो लोकपालो महायशः ॥ ६८ ॥

यक्षगन्धर्वनागाश्च किन्नरः शुद्धरूपकः ।
विद्याधरश्चाहिपतिश्चारणः पन्नगेश्वरः ॥ ६९ ॥

चण्डिकेशः प्रचण्डश्च घण्टानादरतः प्रियः ।
वीणाध्वनिर्वैनतेयो नारदस्तुम्बरुर्हरः ॥ ७० ॥

वीणाप्रचण्डसौन्दर्यो राजीवाक्षश्च मन्मथः ।
चन्द्रो दिवाकरो गोपः केसरी सोमसोदरः ॥ ७१ ॥

सनकः शुकयोगी च नन्दी षण्मुखरागकः ।
गणेशो विघ्नराजश्च चन्द्राभो विजयो जयः ॥ ७२ ॥

अतीतकालचक्रश्च तामसः कालदण्डवान् ।
विष्णुचक्रः त्रिशूलेन्द्रो ब्रह्मदण्डो विरुद्धकः ॥ ७३ ॥

ब्रह्मास्त्ररूपो सत्येन्द्रः कीर्तिमान्गोपतिर्भवः ।
वसिष्ठो वामदेवश्च जाबाली कण्वरूपकः ॥ ७४ ॥

संवर्तरूपो मौद्गल्यो मार्कण्डेयश्च काश्यपः ।
त्रिजटो गार्ग्यरूपी च विषनाथो महोदयः ॥ ७५ ॥

त्वष्टा निशाकरः कर्मकाश्यपश्च त्रिरूपवान् ।
जमदग्निः सर्वरूपः सर्वनादो यतीश्वरः ॥ ७६ ॥

अश्वरूपी वैद्यपतिर्गरकण्ठोऽम्बिकार्चितः ।
चिन्तामणिः कल्पवृक्षो रत्नाद्रिरुदधिप्रियः ॥ ७७ ॥

महामण्डूकरूपी च कालाग्निसमविग्रहः ।
आधारशक्तिरूपी च कूर्मः पञ्चाग्निरूपकः ॥ ७८ ॥

क्षीरार्णवो महारूपो वराहश्च धृतावनिः ।
ऐरावतो जनः पद्मो वामनः कुमुदात्मवान् ॥ ७९ ॥

पुण्डरीकः पुष्पदन्तो मेघच्छन्नोऽभ्रचारकः ।
सितोत्पलाभो द्युतिमान् दृढोरस्कः सुरार्चितः ॥ ८० ॥

पद्मनाभः सुनाभश्च दशशीर्षः शतोदरः ।
अवाङ्मुखो पञ्चवक्त्रो रक्षाख्यात्मा द्विरूपकः ॥ ८१ ॥

स्वर्णमण्डलसञ्चारी वेदिस्थः सर्वपूजितः ।
स्वप्रसन्नः प्रसन्नात्मा स्वभक्ताभिमुखो मृदुः ॥ ८२ ॥

आवाहितः सन्निहितो वरदो ज्ञानवस्थितः ।
शालिग्रामात्मको ध्यातो रत्नसिंहासनस्थितः ॥ ८३ ॥

अर्घ्यप्रियः पाद्यतुष्टश्चाचम्यार्चितपादुकः ।
पञ्चामृतः स्नानविधिः शुद्धोदकसुसञ्चितः ॥ ८४ ॥

गन्धाक्षतसुसम्प्रीतः पुष्पालङ्कारभूषणः ।
अङ्गपूजाप्रियः सर्वो महाकीर्तिर्महाभुजः ॥ ८५ ॥

नामपूजाविशेषज्ञः सर्वनामस्वरूपकः ।
धूपितो दिव्यधूपात्मा दीपितो बहुदीपवान् ॥ ८६ ॥

बहुनैवेद्यसंहृष्टो निराजनविराजितः ।
सर्वातिरञ्जितानन्दः सौख्यवान् धवलार्जुनः ॥ ८७ ॥

विरागो निर्विरागश्च यज्ञार्चाङ्गो विभूतिकः ।
उन्मत्तो भ्रान्तचित्तश्च शुभचित्तः शुभाहुतिः ॥ ८८ ॥

सुरैरिष्टो लघिष्टश्च बहिष्ठो बहुदायकः ।
महिष्ठः सुमहौजाश्च बलिष्ठः सुप्रतिष्ठितः ॥ ८९ ॥

काशीगङ्गाम्बुमज्जश्च कुलश्रीमन्त्रजापकः ।
चिकुरान्वितभालश्च सर्वाङ्गलिप्तभूतिकः ॥ ९० ॥

अनादिनिधनो ज्योतिभार्गवाद्यः सनातनः ।
तापत्रयोपशमनो मानवासो महोदयः ॥ ९१ ॥

ज्येष्ठः श्रेष्ठो महारौद्रः कालमूर्तिः सुनिश्चयः ।
ऊर्ध्वः समूर्ध्वलिङ्गश्च हिरण्यो हेमलिङ्गवान् ॥ ९२ ॥

सुवर्णः स्वर्णलिङ्गश्च दिव्यमूर्तिर्दिवस्पतिः ।
दिव्यलिङ्गो भवो भव्यः सर्वलिङ्गस्तु सर्वकः ॥ ९३ ॥

शिवलिङ्गः शिवो मायो ज्वलस्तूज्ज्वललिङ्गवान् ।
आत्मा चैवात्मलिङ्गश्च परमो लिङ्गपारगः ॥ ९४ ॥

सोमः सूर्यः सर्वलिङ्गः पाणियन्त्रपवित्रवान् ।
सद्योजातस्तपोरूपो भवोद्भव अनीश्वरः ॥ ९५ ॥

तत्सविद्रूपसविता वरेण्यश्च प्रचोदयात् ।
दूरदृष्टिर्दूरगतो दूरश्रवणतर्पितः ॥ ९६ ॥

योगपीठस्थितो विद्वान् नमस्कारितरासभः ।
नमस्कृतशुनश्चापि वज्रकष्ट्यातिभीषणः ॥ ९७ ॥

ज्वलन्मुखः प्रतीवाणी सखड्गो द्राविडप्रजः ।
पशुघ्नश्च रसोन्मत्तो रसोर्ध्वमुखरञ्जितः ॥ ९८ ॥

रसप्रियो रसात्मा च रसरूपी रसेश्वरः ।
रसाधिदैवतो भौमो रसाङ्गो रसभावनः ॥ ९९ ॥

रसोन्मदो रसकरो रसेन्द्रो रसपूजकः ।
रससिद्धः सिद्धरसो रसद्रव्यो रसोन्मुखः ॥ १०० ॥

रसाङ्कितो रसापूर्णो रसदो रसिको रसी ।
गन्धकादस्तालकादो गौरःस्फटिकसेवनः ॥ १०१ ॥

कार्यसिद्धः कार्यरुचिर्बहुकार्यो न कार्यवान् ।
अभेदी जनकर्ता च शङ्खचक्रगदाधरः ॥ १०२ ॥

कृष्णाजिनकिरीटी च श्रीकृष्णाजिनकञ्चुकः ।
मृगयायी मृगेन्द्रश्च गजरूपी गजेश्वरः ॥ १०३ ॥

दृढव्रतः सत्यवादी कृतज्ञो बलवान्बलः ।
गुणवान् कार्यवान् दान्तः कृतशोभो दुरासदः ॥ १०४ ॥

सुकालो भूतनिहितः समर्थश्चाण्डनायकः ।
सम्पूर्णदृष्टिरक्षुब्धो जनैकप्रियदर्शनः ॥ १०५ ॥

नियतात्मा पद्मधरो ब्रह्मवांश्चानसूयकः ।
उञ्च्छवृत्तिरनीशश्च राजभोगी सुमालिकः ॥ १०६ ॥

सुकुमारो जराहीनो चारघ्नो मञ्जुलेक्षणः ।
सुपादः स्वङ्गुलीकश्च सुजङ्घः शुभजानुकः ॥ १०७ ॥

शुभोरुः शुभलिङ्गश्च सुनाभो जघनोत्तमः ।
सुपार्श्वः सुस्तनो नीलः सुवक्षश्च सुजत्रुकः ॥ १०८ ॥

नीलग्रीवो महास्कन्धः सुभुजो दिव्यजङ्घकः ।
सुहस्तरेखो लक्ष्मीवान् दीर्घपृष्ठो यतिश्चलः ॥ १०९ ॥

उन्मीलितोन्मीलितश्च विशालाक्षश्च शुभ्रकः ।
शुभमध्यः सुभालश्च सुशिरा नीलरोमकः ॥ ११० ॥

बिम्बोष्ठः शुभ्रदन्तश्च विद्युज्जिह्वः सुतालुकः ।
दीर्घनासः सुताम्राक्षः सुकपोलः सुकर्णकः ॥ १११ ॥

विशिष्टग्रामणिस्कन्धः शिखिवर्णो विभावसुः ।
कैलासेशो विचित्रज्ञो वैकुण्ठेन्द्रो विचित्रवान् ॥ ११२ ॥

मनसेन्द्रश्चक्रवालो महेन्द्रो मन्दारधिपः ।
मलयो विन्ध्यरूपश्च हिमवान् मेरुरूपकः ॥ ११३ ॥

सुवेषो नव्यरूपात्मा मैनाको गन्धमादनः ।
सिंहाचलश्च वेदाद्रिः श्रीशैलः क्रकचात्मकः ॥ ११४ ॥

नानाचलश्चित्रकूटो दुर्वासो पर्वतात्मजः ।
यमुनाकृष्णवेणीशो भद्रेशो गौतमीपतिः ॥ ११५ ॥

गोदावरीशो गङ्गात्मा शोणकः कौशिकीपतिः ।
नर्मदेशस्तु कावेरीताम्रपर्णीश्वरो जटी ॥ ११६ ॥

सरिद्रूपा नदात्मा च समुद्रः सरिदीश्वरः ।
ह्रादिनीशः पावनीशो नलिनीशः सुचक्षुमान् ॥ ११७ ॥

सीतानदीपतिः सिन्धूरेवेशी मुरलीपतिः ।
लवणेक्षुः क्षीरनिधिः सुराब्धिः सर्पिरम्बुधिः ॥ ११८ ॥

दयाब्धिशुद्धजलधिस्तत्वरूपी धनाधिपः ।
भूपालमधुरागज्ञो मालनीरागकोविदः ॥ ११९ ॥

पौण्ड्रक्रियाज्ञः श्रीरागो नानारागार्णवान्तकः ।
वेदादिरूपो ह्रींरूपो ह्रूंरूपः क्लींविकारकः ॥ १२० ॥

ग्लूंमयः क्लींमयः प्रख्यो हूंमयः क्रौंमयो भटः ।
धींमयो लुङ्मयो लाङ्गो घंमयः खंमयः खगः ॥ १२१ ॥

खंमयो ञंमयश्चाङ्गो बीजाङ्गो बीजजंमयः ।
झङ्करष्टङ्करःष्टङ्गो डङ्करो ढङ्करोऽणुकः ॥ १२२ ॥

तङ्करस्थङ्करस्तुङ्गो द्रांमुद्रारूपकः सुदः ।
दक्षो दण्डी दानवघ्नो अप्रतिद्वन्द्ववामदः ॥ १२३ ॥

धंरूपो नंस्वरूपश्च पङ्कजाक्षश्च फंमयः ।
महेन्द्रो मधुभोक्ता च मन्दरेतास्तु भंमयः ॥ १२४ ॥

रंमयो रिङ्करो रङ्गो लङ्करः वंमयः शरः ।
शङ्करः षण्मुखो हंसः शङ्करः शङ्करोऽक्षयः ॥ १२५ ॥

ओमित्येकाक्षरात्मा च सर्वबीजस्वरूपकः ।
श्रीकरः श्रीपदः श्रीशः श्रीनिधिः श्रीनिकेतनः ॥ १२६ ॥

पुरुषोत्तमः सुखी योगी दत्तात्रेयो हृदिप्रियः ।
तत्सम्युतः सदायोगी धीरतन्त्रः सुसाधकः ॥ १२७ ॥

पुरुषोत्तमो यतिश्रेष्ठो दत्तात्रेयः सखीत्ववान् ।
वसिष्ठवामदेवाभ्यां दत्तः पुरुषः ईरितः ॥ १२८ ॥

यावत्तिष्ठते ह्यस्मिन् तावत्तिष्ठति तत्सुखः ।
य इदं शृणुयान्नित्यं ब्रह्मसायुज्यतां व्रजेत् ॥ १२९ ॥

भुक्तिमुक्तिकरं तस्य नात्रकार्या विचारणा ।
आयुष्मत्पुत्रपौत्रांश्च दत्तात्रेयः प्रदर्शयेत् ॥ १३० ॥

धन्यं यशस्यमायुष्यं पुत्रभाग्यविवर्धनम् ।
करोति लेखनादेव परार्थं वा न संशयः ॥ १३१ ॥

यः करोत्युपदेशं च नामदत्तसहस्रकम् ।
स च याति च सायुज्यं श्रीमान् श्रीमान् न संशयः ॥ १३२ ॥

पठनाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ।
खेचरत्वं कार्यसिद्धिं योगसिद्धिमवाप्नुयात् ॥ १३६ ॥

ब्रह्मराक्षसवेतालैः पिशाचैः कामिनीमुखैः ।
पीडाकरैः सुखकरैर्ग्रहैर्दुष्टैर्न बाध्यते ॥ १३४ ॥

देवैः पिशाचैर्मुच्येत सकृदुच्चारणेन तु ।
यस्मिन् देशे स्थितं चैतत्पुस्तकं दत्तनामकम् ॥ १३५ ॥

पञ्चयोजनविस्तारं रक्षणं नात्र संशयः ।
सर्वबीजसमायुक्तं स्तोत्रं नामसहस्रकम् ॥ १३६ ॥

सर्वमन्त्रस्वरूपं च दत्तात्रेयस्वरूपकम् ।
एकवारं पठित्वा तु ताम्रपात्रे जलं स्पृशेत् ॥ १३७ ॥

पीत्वा चेत्सर्वरोगैश्च मुच्यते नात्र संशयः ।
स्त्रीवश्यं पुरुषवश्यं राजवश्यं जयावहम् ॥ १३८ ॥

सम्पत्प्रदं मोक्षकरं पठेन्नित्यमतन्द्रितः ।
लीयन्तेऽस्मिन्प्रपञ्चार्थान् वैरिशोकादिकारितः ॥ १३९ ॥

पठनात्तु प्रसन्नोऽहं शङ्कराचार्य बुद्धिमान् ।
भविष्यति न सन्देहः पठितः प्रातरेव माम् ॥ १४० ॥

उपदेक्ष्ये सर्वयोगान् लम्बिकादिबहून्वरान् ।
दत्तात्रेयस्तु चेत्युक्त्वा स्वप्ने चान्तरधीयत ॥ १४१ ॥

स्वप्नादुत्थाय चाचार्यः विस्मयं परमं गतः ।
स्वप्नोपदिष्टं तं स्तोत्रं दत्तात्रेयेन योगिना ॥ १४२ ॥

सहस्रनामकं दिव्यं पठित्वा योगवान्भवेत् ।
ज्ञानयोगयतित्वं च पराकायप्रवेशनम् ॥ १४३ ॥

बहुविद्याखेचरत्वं दीर्घायुस्तत्प्रसादतः ।
तदारभ्य भुवि श्रेष्ठः प्रसिद्धश्चाभवद्यती ॥ १४४ ॥

इति श्रीशङ्कराचार्यस्वप्नावस्थायां दत्तात्रेयोपदेशितं सकलपुराणवेदोक्त प्रपञ्चार्थसारवत् स्तोत्रं सम्पूर्णम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed