Sri Dattatreya Prarthana Stotram – श्री दत्तात्रेय प्रार्थना स्तोत्रम्


समस्तदोषशोषणं स्वभक्तचित्ततोषणं
निजाश्रितप्रपोषणं यतीश्वराग्र्यभूषणम् ।
त्रयीशिरोविभूषणं प्रदर्शितार्थदूषणं
भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥ १ ॥

समस्तलोककारणं समस्तजीवधारणं
समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् ।
भजद्भयाद्रिदारणं भजत्कुकर्मवारणं
हरिं स्वभक्ततारणं नमामि साधुचारणम् ॥ २ ॥

नमाम्यहं मुदास्पदं निवारिताखिलापदं
समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् ।
यदञ्चितान्तरा मदं विहाय नित्यसम्मदं
प्रयान्ति नैव ते भिदं मुहुर्भजन्ति चाविदम् ॥ ३ ॥

प्रसीद सर्वचेतने प्रसीद बुद्धिचेतने
स्वभक्तहृन्निकेतने सदाम्ब दुःखशातने ।
त्वमेव मे प्रसूर्मता त्वमेव मे प्रभो पिता
त्वमेव मेऽखिलेहितार्थदोऽखिलार्तितोऽविता ॥ ४ ॥

इति श्रीमद्वासुदेवानन्दसरस्वती विरचितं श्री दत्तात्रेय प्रार्थना स्तोत्रम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed