Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ दशरथविलापः ॥
मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।
उष्णमश्रु विमुञ्चन्तः रामे सम्प्रस्थिते वनम् ॥ १ ॥
उभाभ्यां राज पुत्राभ्यामथ कृत्वाऽहमञ्जलिम् ।
प्रस्थितः रथमास्थाय तद्दुःखमपि धारयन् ॥ २ ॥
गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून् ।
आशया यदि मां रामः पुनः शब्दापयेदिति ॥ ३ ॥
विषये ते महाराज रामव्यसनकर्शिताः ।
अपि वृक्षाः परिम्लानः सपुष्पाङ्कुर कोरकाः ॥ ४ ॥
उपतप्तोदका नद्यः पल्वलानि सरांसि च ।
परिशुष्कुपलाशानि वनान्युपवनानि च ॥ ५ ॥
न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।
राम शोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ ६ ॥
लीन पुष्करपत्राश्च नरेन्द्र कलुषोदकाः ।
सन्तप्त पद्माः पद्मिन्यो लीनमीनविहङ्गमाः ॥ ७ ॥
जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।
नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ ८ ॥
अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।
न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥ ९ ॥
प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।
नरा राममपश्यन्तर्निश्वसन्ति मुहुर्मुहुः ॥ १० ॥
देव राजरथं दृष्ट्वा विना राममिहागतम् ।
दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥ ११ ॥
हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथमागतम् ।
हाहाकारकृता नार्यो रामादर्शन कर्शिताः ॥ १२ ॥
आयतैः विमलैर्नेत्रैः अश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः ॥ १३ ॥
नामित्राणां न मित्राणामुदासीन जनस्य च ।
अहमार्ततया कञ्चित् विशेषमुपलक्षये ॥ १४ ॥
अप्रहृष्ट मनुष्या च दीननागतुरङ्गमा ।
आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना ॥ १५ ॥
निरानन्दा महाराज राम प्रव्राजनातुरा ।
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ १६ ॥
सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।
बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ १७ ॥
कैकेय्या विनियुक्तेन पापाभिजन भावया ।
मया न मन्त्रकुशलैः वृद्धैः सह समर्थितम् ॥ १८ ॥
न सुहृद्भिर्न चामात्यैः मन्त्रयित्वा च नैगमैः ।
मयाऽयमर्थः सम्मोहात् स्त्री हेतोः सहसा कृतः ॥ १९ ॥
भवितव्यतया नूनमिदं वा व्यसनं महत् ।
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ २० ॥
सूत यद्यस्ति ते किञ्चित् मया तु सुकृतं कृतम् ।
त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम् ॥ २१ ॥
यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् ।
न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ॥ २२ ॥
अथवाऽपि महाबाहुर्गतो दूरं भविष्यति ।
मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥ २३ ॥
वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः ।
यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ २४ ॥
लोहिताक्षं महाबाहुमामुक्त मणिकुण्डलम् ।
रामं यदि न पश्यायं गमिष्यामि यम क्षयम् ॥ २५ ॥
अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम् ।
इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ २६ ॥
हा राम रामानुज हा हा वैदेहि तपस्विनी ।
न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥ २७ ॥
स तेन राजा दुःखेन भृशमर्पितचेतनः ।
अवगाढः सुदुष्पारं शोकसागमब्रवीत् ॥ २८ ॥
रामशोकमहाभोगः सीताविरहपारगः ।
श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥ २९ ॥
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।
प्रकीर्णकेशशैवालः कैकेयीवडवामुखः ॥ ३० ॥
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
वरवेलो नृशंसायाः रामप्रव्राजनायतः ॥ ३१ ॥
यस्मिन् बत निमग्नोऽहं कौसल्ये राघवं विना ।
दुस्तरः जीवता देवि मयाऽयं शोकसागरः ॥ ३२ ॥
अशोभनं योऽहमिहाद्य राघवम्
दिदृक्षमाणो न लभे सलक्ष्मणम्-
-इतीव राजा विलपन् महायशः
पपात तूर्णं शयने स मूर्चितः ॥ ३३ ॥
इति विलपति पार्थिवे प्रणष्टे
करुणतरं द्विगुणं च रामहेतोः ।
वचनमनुनिशम्य तस्य देवी
भयमगमत् पुनरेव राममाता ॥ ३४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥ ५९ ॥
अयोध्याकाण्ड षष्ठितमः सर्गः (६०) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

