Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ कौसल्यासमाश्वासनम् ॥
ततः भूतोपसृष्टेव वेपमाना पुनः पुनः ।
धरण्यां गत सत्त्वेव कौसल्या सूतमब्रवीत् ॥ १ ॥
नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ २ ॥
निवर्तय रथं शीघ्रं दण्डकान्नय मामपि ।
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ ३ ॥
बाष्प वेगोपहतया स वाचा सज्जमानया ।
इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ ४ ॥
त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा ।
व्यवधूय च सन्तापं वने वत्स्यति राघवः ॥ ५ ॥
लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ ६ ॥
विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव ।
विस्रम्भं लभतेऽभीता रामे संन्यस्तमानसा ॥ ७ ॥
नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते ।
उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ ८ ॥
नगरोपवनं गत्वा यथा स्म रमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ ९ ॥
बालेव रमते सीता बालचन्द्रनिभानना ।
रामा रामे ह्यदीनात्मा विजनेऽपि वने सती ॥ १० ॥
तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् ।
अयोध्याऽपि भवेत्तस्याः रामहीना तथा वनम् ॥ ११ ॥
परि पृच्छति वैदेही ग्रामांश्च नगराणि च ।
गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि ॥ १२ ॥
रामं हि लक्ष्मणं वाऽपि पृष्ट्वा जानाति जानकी ।
अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ॥ १३ ॥
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।
कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ १४ ॥
ध्वंसयित्वा तु तद्वाक्यं प्रमादात्पर्युपस्थितम् ।
ह्लदनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ १५ ॥
अध्वना वात वेगेन सम्भ्रमेणातपेन च ।
न विगच्छति वैदेह्याश्चन्द्रांशु सदृशी प्रभा ॥ १६ ॥
सदृशं शतपत्रस्य पूर्ण चन्द्रोपम प्रभम् ।
वदनं तद्वदान्यायाः वैदेह्या न विकम्पते ॥ १७ ॥
अलक्तरसरक्ताभौ अलक्तरसवर्जितौ ।
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥ १८ ॥
नूपुरोद्घुष्ट हेलेव खेलं गच्छति भामिनी ।
इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा ॥ १९ ॥
गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता ।
नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ॥ २० ॥
न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः ।
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ २१ ॥
विधूय शोकं परिहृष्टमानसा
महर्षियाते पथि सुव्यवस्थिताः ।
वने रता वन्यफलाशनाः पितुः
शुभां प्रतिज्ञां परिपालयन्ति ते ॥ २२ ॥
तथाऽपि सूतेन सुयुक्तवादिना
निवार्यमाणा सुत शोककर्शिता ।
न चैव देवी विरराम कूजितात्
प्रियेति पुत्रेति च राघवेति च ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥ ६० ॥
अयोध्याकाण्ड एकषष्ठितमः सर्गः (६१) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.