Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पितृ तर्पणम्
शुचिः –
अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥
प्रार्थना –
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
ओं श्री महागणाधिपतये नमः ।
आचम्य –
ओं केशवाय स्वाहा ।
ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः । ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः । ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः । ओं पुरुषोत्तमाय नमः ।
ओं अथोक्षजाय नमः । ओं नारसिंहाय नमः ।
ओं अच्युताय नमः । ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः । ओं हरये नमः ।
ओं श्री कृष्णाय नमः ।
पवित्रं –
ओं प॒वित्र॑वन्त॒: परि॒वाज॒मास॑ते पि॒तैषां᳚ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् ।
म॒हस्स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभ᳚म् ॥
प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: ।
अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ॥
पवित्रं धृत्वा ॥
भूतोच्छाटनम् –
उत्तिष्ठन्तु भूतपिशाचाः एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
प्राणायामं –
ओं भूः । ओं भुवः । ओं सुवः । ओं महः ।
ओं जनः । ओं तपः । ओं सत्यम् ।
तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ।
ओमापो॒ ज्योती॒ रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।
सङ्कल्पम् –
श्री गोविन्द गोविन्द गोविन्द । श्रीमहाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य ___ प्रदेशे ___, ___ नद्योः मध्ये पुण्यप्रदेशे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चान्द्रमानेन श्री ____ नाम संवत्सरे ___ अयने ___ ऋतौ ___ मासे ___ पक्षे ___ तिथौ ___ वासरे श्रीविष्णु नक्षत्रे श्रीविष्णु योगे श्रीविष्णु करण एवं गुण विशेषण विशिष्टायां पुण्यतिथौ
॥ प्राचीनावीती ॥
अस्मत् पितॄनुद्दिश्य अस्मत् पितॄणां पुण्यलोकावाप्त्यर्थं अस्मत् पितृ तर्पणं करिष्ये ॥ सव्यम् ॥
नमस्कारम् –
ईशानः पितृरूपेण महादेवो महेश्वरः ।
प्रीयतां भगवानीशः परमात्मा सदाशिवः ॥ १
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमस्स्वाहायै स्वधायै नित्यमेव नमो नमः ॥ २
मन्त्रमध्ये क्रियामध्ये विष्णोस्स्मरण पूर्वकम् ।
यत्किञ्चित्क्रियते कर्म तत्कोटि गुणितं भवेत् ॥ ४
विष्णुर्विष्णुर्विष्णुः ॥
(दक्षिण दिशमावर्तय)
अर्घ्यपात्र उपचारः –
अर्घ्यपात्रयोः अमीगन्धाः ।
पुष्पार्था इमे अक्षताः ।
अमी कुशाः ।
॥ सव्यम् ॥
नमस्कृत्य ।
ओं आय॑न्तु नः पि॒तर॑स्सो॒म्यासो᳚ग्निष्वा॒त्ताः प॒थिभि॑र्देव॒ यानै᳚: ।
अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मदं॒ त्वधि॑ बृवन्तु॒ ते अ॑वन्त्व॒ स्मान् ॥
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥
पितृदेवताभ्यो नमः ।
ओं आगच्छन्तु मे पितर इमं गृह्णन्तु जलाञ्जलिम् ।
॥ प्राचीनावीती ॥
पित्रादि तर्पणं ।
(* ब्राह्मणाः – शर्माणं, क्षत्रियाः – वर्माणं, वैश्याः – गुप्तं, इतर – दासं )
(मुख्यसूचना – सजीव तर्पणं न करोतु इति प्रतिबन्धः)
अस्मत् पितरं __(गोत्रं)__ गोत्रं __(नामं)__ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् पितामहं ___ गोत्रं ___ शर्माणं* रुद्ररूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् प्रपितामहं ___ गोत्रं ___ शर्माणं* आदित्यरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातरं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् पितामहीं ___ गोत्रां ___ दां रुद्ररूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् प्रपितामहीं ___ गोत्रां ___ दां आदित्यरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् सापत्नीमातरं ___ गोत्रां ___ दां वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातामहं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुः पितामहं ___ गोत्रं ___ शर्माणं* रुद्ररूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुः प्रपितामहं ___ गोत्रं ___ शर्माणं* आदित्यरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातामहीं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुः पितामहीं ___ गोत्रां ___ दां रुद्ररूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुः प्रपितामहीं ___ गोत्रां ___ दां आदित्यरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् आत्मपत्नीं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् सुतं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् भ्रातरं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् ज्येष्ठ/कनिष्ठ पितृव्यं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुलं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् दुहितरं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् भगिनीं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् दौहित्रं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् भगिनेयकं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् पितृष्वसारं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् ज्येष्ठ/कनिष्ठ मातृष्वसारं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् जामातरं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् भावुकं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् स्नुषां ___ गोत्रं ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् श्वशुरं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् श्वश्रूं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् स्यालकं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् स्वामिनं/आचार्यं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् गुरुं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् रिक्थिनं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
पितृदेवताभ्यो नमः ।
सुप्रीतो भवतु ।
कुशोदकम् –
॥ प्राचीनावीती ॥
एषान्नमाता न पिता न बन्धुः नान्य गोत्रिणः ।
ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः कुशोदकैः ॥
तृप्यत तृप्यत तृप्यत तृप्यत तृप्यत ।
इष्पीडनोदकम् –
॥ निवीती ॥
येके चास्मत्कुलेजाताः अपुत्राः गोत्रिणो मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।
समर्पणम् –
॥ सव्यम् ॥
कायेन वाचा मनसैन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेस्स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ।
नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
पवित्रं विसृज्य ।
ओं शान्तिः शान्तिः शान्तिः ॥
ओं तत्सत् ब्रह्मार्पणमस्तु ॥
इतर पितृदेवता स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

