Sri Anantha Padmanabha Mangala Stotram – श्री अनन्तपद्मनाभ मङ्गल स्तोत्रम्


श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री शेषशायिने अनन्तपद्मनाभाय मङ्गलम् ॥ १ ॥

स्यानन्दूरपुरीभाग्यभव्यरूपाय विष्णवे ।
आनन्दसिन्धवे अनन्तपद्मनाभाय मङ्गलम् ॥ २ ॥

हेमकूटविमानान्तः भ्राजमानाय हारिणे ।
हरिलक्ष्मीसमेताय पद्मनाभाय मङ्गलम् ॥ ३ ॥

श्रीवैकुण्ठविरक्ताय शङ्खतीर्थाम्बुधेः तटे ।
रमया रममाणाय पद्मनाभाय मङ्गलम् ॥ ४ ॥

अशेष चिदचिद्वस्तुशेषिणे शेषशायिने ।
अशेषदायिने अनन्तपद्मनाभाय मङ्गलम् ॥ ५ ॥

यत्पदं परमं सेव्यं सदा पश्यन्ति सूरयः ।
सेनापतिमुखास्तस्मै पद्मनाभाय मङ्गलम् ॥ ६ ॥

चुतुर्मुखेश्वरमुखैः पुत्रपौत्रादिशालिने ।
समस्तपरिवाराय पद्मनाभाय मङ्गलम् ॥ ७ ॥

दिवाकरयतीशानयोगिहृत्पद्मभानवे ।
परस्मै ब्रह्मणे अनन्तपद्मनाभाय मङ्गलम् ॥ ८ ॥

पराङ्कुशप्रबन्धोक्तिप्रथिताय परमात्मने ।
पूर्णाय महते अनन्तपद्मनाभाय मङ्गलम् ॥ ९ ॥

वञ्चिभूपशिरोरत्नरश्मिनीराजिताङ्घ्रये ।
वाञ्छिताखिलदायास्तु पद्मनाभाय मङ्गलम् ॥ १० ॥

सर्वावयवसौन्दर्य सौवर्णसुषमा जुषे ।
सदा सम्मोहनायास्तु पद्मनाभाय मङ्गलम् ॥ ११ ॥

योगेश्वराय कृष्णाय नरसिंहाय योगिने ।
योगमुद्राभिरामाय पद्मनाभाय मङ्गलम् ॥ १२ ॥

अनन्तपुरनाथाय निरन्तरदयामुचे ।
अनन्तपद्मनाभाय नित्यश्रीः नित्यमङ्गलम् ॥ १३ ॥

इति श्री अनन्तपद्मनाभ मङ्गल स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed