Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ महापार्श्ववधः ॥
महोदरे तु निहते महापार्श्वो महाबलः ।
सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः ॥ १ ॥
अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ।
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः ॥ २ ॥
पातयामास कायेभ्यः फलं वृन्तादिवानिलः ।
केषाञ्चिदिषुभिर्बाहून् स्कन्धांश्चिच्छेद राक्षसः ॥ ३ ॥
वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत् ।
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ॥ ४ ॥
विषादविमुखाः सर्वे बभूवुर्गतचेतसः ।
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ॥ ५ ॥
वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ।
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ॥ ६ ॥
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ।
स तु तेन प्रहारेण महापार्श्वो विचेतनः ॥ ७ ॥
ससूतः स्यन्दनात्तस्माद्विसञ्ज्ञः प्रापतद्भुवि ।
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः ॥ ८ ॥
निष्पत्य सुमहावीर्यः स्वाद्व्यूहान्मेघसन्निभात् ।
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम् ॥ ९ ॥
अश्वान्जघान तरसा स्यन्दनं च बभञ्ज तम् ।
मुहूर्ताल्लब्धसञ्ज्ञस्तु महापार्श्वो महाबलः ॥ १० ॥
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ।
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ ११ ॥
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ।
जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ ॥ १२ ॥
जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः ।
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम् ॥ १३ ॥
दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ।
द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान् ॥ १४ ॥
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ।
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ॥ १५ ॥
धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ।
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ॥ १६ ॥
तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ।
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ॥ १७ ॥
करेणैकेन जग्राह सुमहान्तं परश्वधम् ।
तं तैलधौतं विमलं शैलसारमयं दृढम् ॥ १८ ॥
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ।
तेन वामांसफलके भृशं प्रत्यवपादितम् ॥ १९ ॥
अङ्गदो मोक्षयामास सरोषः स परश्वधम् ।
स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः ॥ २० ॥
संवर्तयत्सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः ।
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयम्प्रति ॥ २१ ॥
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ।
तेन तस्य निपातेन राक्षसस्य महामृधे ॥ २२ ॥
पफाल हृदयं चाशु स पपात हतो भुवि ।
तस्मिन्निपतिते भूमौ तत्सैन्यं सम्प्रचुक्षुभे ॥ २३ ॥
अभवच्च महान्क्रोधः समरे रावणस्य तु ।
वानराणां च हृष्टानां सिंहनादश्च पुष्कलः ॥ २४ ॥
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ।
महेन्द्रेणेव देवानां नादः समभवन्महान् ॥ २५ ॥
अथेन्द्रशत्रुस्त्रिदिवालयानां
वनौकसां चैव महाप्रणादम् ।
श्रुत्वा सरोषं युधि राक्षसेन्द्रः
पुनश्च युद्धाभिमुखोऽवतस्थे ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥
युद्धकाण्ड शततमः सर्गः (१००) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.