Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ महोदरवधः ॥
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।
सरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥ १ ॥
स्वबलस्य विघातेन विरूपाक्षवधेन च ।
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥
प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।
बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ॥ ३ ॥
उवाच च समीपस्थं महोदरमरिन्दमम् ।
अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ॥ ४ ॥
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।
भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥ ५ ॥
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः ।
प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥ ६ ॥
ततः स कदनं चक्रे वानराणां महाबलः ।
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ७ ॥
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः ।
प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥ ८ ॥
महोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः ।
चिच्छेद पाणिपादोरून्वानराणां महाहवे ॥ ९ ॥
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् ।
दिशो दश द्रुताः केचित्केचित्सुग्रीवमाश्रिताः ॥ १० ॥
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ।
अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ ११ ॥
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।
चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ १२ ॥
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।
असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ १३ ॥
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।
निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ १४ ॥
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः ।
सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥ १५ ॥
शरैश्च विददारैनं शूरः परपुरञ्जयः ।
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥ १६ ॥
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।
परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १७ ॥
तस्माद्धतहयाद्वीरः सोवप्लुत्य महारथात् ।
गदां जग्राह सङ्क्रुद्धो राक्षसोऽथ महोदरः ॥ १८ ॥
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।
नर्दन्तौ गौवृषप्रख्यौ घनाविव सविद्युतौ ॥ १९ ॥
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ २० ॥
गदां तां सुमहाघोरामापतन्तीं महाबलः ।
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ॥ २१ ॥
आजघान गदां तस्य परिघेण हरीश्वरः ।
पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ २२ ॥
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।
आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ २३ ॥
स तमुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् ।
भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ २४ ॥
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ २५ ॥
जघ्नतुस्तौ तदाऽन्योन्यं नेदतुश्च पुनः पुनः ।
तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २६ ॥
उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् ।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ॥ २७ ॥
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ।
आजहार ततः खड्गमदूरपरिवर्तिनम् ॥ २८ ॥
राक्षसश्चर्मणा सार्धं महावेगो महोदरः ।
तथैव च महाखड्गं चर्मणा पतितं सह ॥ २९ ॥
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ।
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ॥ ३० ॥
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ।
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः ॥ ३१ ॥
अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ।
स तु शूरो महावेगो वीर्यश्लाघी महोदरः ॥ ३२ ॥
महाचर्मणि तं खड्गं पातयामास दुर्मतिः ।
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ॥ ३३ ॥
जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ।
निकृत्तशिरसस्तस्य पतितस्य महीतले ॥ ३४ ॥
तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ।
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ३५ ॥
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ३६ ॥
महोदरं तं विनिपात्य भूमौ
महागिरेः कीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्र रराज लक्ष्म्या
सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ ३७ ॥
अथ विजयमवाप्य वानरेन्द्रः
समरमुखे सुरयक्षसिद्धसङ्घैः ।
अवनितलगतैश्च भूतसङ्घैः
हरूषसमाकुलितैः स्तुतो महात्मा ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥
युद्धकाण्ड एकोनशततमः सर्गः (९९) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.