Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ वज्रदंष्ट्रवधः ॥
बलस्य च निघातेन अङ्गदस्य जयेन च ।
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ १ ॥
स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ २ ॥
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।
नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ३ ॥
वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।
आयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ ४ ॥
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।
राक्षसा कपिमुख्येषु पातयांश्चक्रिरे तदा ॥ ५ ॥
वानराश्चापि रक्षस्सु गिरीन्वृक्षान्महाशिलाः ।
प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ॥ ६ ॥
शूराणां युध्यमानानां समरेष्वनिवर्तिनाम् ।
तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ ७ ॥
प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।
शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ॥ ८ ॥
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।
कङ्कगृध्रबलैराढ्या गोमायुगणसङ्कुलाः ॥ ९ ॥
कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै ।
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ॥ १० ॥
वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ।
ततो वानरसैन्येन हन्यमानं निशाचरम् ॥ ११ ॥
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।
राक्षसान्भयवित्रस्तान्हन्यमानान् प्लवङ्गमैः ॥ १२ ॥
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।
प्रविवेश धनुष्पाणिस्त्रासयन्हरिवाहिनीम् ॥ १३ ॥
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ॥ १४ ॥
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।
त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तदेहिनः ॥ १५ ॥ [कन्धराः]
अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ।
ततो हरिगणान्भग्नान्दृष्ट्वा वालिसुतस्तदा ॥ १६ ॥
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।
वज्रदंष्ट्रोङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ ॥ १७ ॥
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ।
ततः शरसहस्रेण वालिपुत्रं महाबलः ॥ १८ ॥
जघान मर्मदेशेषु मातङ्गमिव तोमरैः ।
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ॥ १९ ॥
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ।
दृष्ट्वा पतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ॥ २० ॥
चिच्छेद बहुधा सोऽपि निकृत्तः पतितो भुवि ।
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ॥ २१ ॥
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ।
समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ॥ २२ ॥
गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ।
साङ्गदेन गदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि ॥ २३ ॥
स चक्रकूबरं साश्वं प्रममाथ रथं तदा ।
ततोऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ॥ २४ ॥
वज्रदंष्ट्रस्य शिरसि पातयामास सोङ्गदः ।
अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्छितः ॥ २५ ॥
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ।
स लब्धसञ्ज्ञो गदया वालिपुत्रमवस्थितम् ॥ २६ ॥
जघान परमक्रुद्धो वक्षोदेशे निशाचरः ।
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ॥ २७ ॥
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ।
रुधिरोद्गारिणौ तौ तु प्रहरैर्जनितश्रमौ ॥ २८ ॥
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ।
ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः ॥ २९ ॥
उत्पाट्य वृक्षं स्थितवान्बहुपुष्पफलान्वितम् ।
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ॥ ३० ॥
किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ।
[* वज्रदंष्ट्रोऽथ जग्राह सोङ्गदोऽप्यसि चर्मणी । *]
विचित्रांश्चेरतुर्मार्गान्रुषितौ कपिराक्षसौ ॥ ३१ ॥
जघ्नतुश्च तदाऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ।
व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ ॥ ३२ ॥
युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ।
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ॥ ३३ ॥
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ।
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ॥ ३४ ॥
जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ।
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ॥ ३५ ॥
स रोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ।
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ॥ ३६ ॥
त्रस्ताः प्रत्यपतँल्लङ्कां वध्यमानाः प्लवङ्गमैः ।
विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ॥ ३७ ॥
निहत्य तं वज्रधरप्रभावः
स वालिसूनुः कपिसैन्यमध्ये ।
जगाम हर्षं महितो महाबलः
सहस्रनेत्रस्त्रिदशैरिवावृतः ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥
युद्धकाण्ड पञ्चपञ्चाशः सर्गः (५५) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.