Yuddha Kanda Sarga 53 – युद्धकाण्ड त्रिपञ्चाशः सर्गः (५३)


॥ वज्रदंष्ट्रयुद्धम् ॥

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ।
क्रोधेन महताऽऽविष्टो निःश्वसन्नुरगो यथा ॥ १ ॥

दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः ।
अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ॥ २ ॥

गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ।
जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥ ३ ॥

तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः ।
निर्जगाम बलैः सार्धं बहुभिः परिवारितः ॥ ४ ॥

नागैरश्वैः खरैरुष्ट्रैः सम्युक्तः सुसमाहितः ।
पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ॥ ५ ॥

ततो विचित्रकेयूरमुकुटैश्च विभूषितः ।
तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम् ॥ ६ ॥

पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् ।
रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ॥ ७ ॥

यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ।
भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्‍टिशैरपि ॥ ८ ॥

खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः ।
पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ॥ ९ ॥

विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ।
गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः ॥ १० ॥

ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ।
अन्ये लक्षणसम्युक्ताः शूरा रूढा महाबलाः ॥ ११ ॥

तद्राक्षसबलं घोरं विप्रस्थितमशोभत ।
प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ १२ ॥

निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः ।
तेषां निष्क्रममाणानामशुभं समजायत ॥ १३ ॥

आकाशाद्विघनात्तीव्रा उल्काश्चाभ्यपतंस्तदा ।
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥ १४ ॥

व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ।
समापतन्तो योधास्तु प्रास्खलन्भयमोहिताः ॥ १५ ॥

एतानौत्पातिकान्दृष्ट्वा वज्रदंष्ट्रो महाबलः ।
धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥ १६ ॥

तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः ।
प्रणेदुः सुमहानादान्पूरयंश्च दिशो दश ॥ १७ ॥

ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।
घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ॥ १८ ॥

निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ।
रुधिरोक्षितसर्वाङ्गा न्यपतन् जगतीतले ॥ १९ ॥

केचिदन्योन्यमासाद्य शूराः परिघपाणयः ।
चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ॥ २० ॥

द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः ।
श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ॥ २१ ॥

रथनेमिस्वनस्तत्र धनुषश्चापि निःस्वनः ।
शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ॥ २२ ॥

केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ।
तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ॥ २३ ॥

जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः ।
शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ॥ २४ ॥

वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन्हरीन् ।
चचार लोकसंहारे पाशहस्त इवान्तकः ॥ २५ ॥

बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे ।
जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः ॥ २६ ॥

निघ्नतो राक्षसान्दृष्ट्वा सर्वान्वालिसुतो रणे ।
क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥ २७ ॥

तान्राक्षसगणान् सर्वान्वृक्षमुद्यम्य वीर्यवान् ।
अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ॥ २८ ॥

चकार कदनं घोरं शक्रतुल्यपराक्रमः ।
अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ॥ २९ ॥

विभिन्नशिरसः पेतुर्विकृत्ता इव पादपाः ।
रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् ॥ ३० ॥

रुधिरेण च सञ्छन्ना भूमिर्भयकरी तदा ।
हारकेयूरवस्त्रैश्च शस्त्रैश्च समलङ्कृता ॥ ३१ ॥

भूमिर्भाति रणे तत्र शारदीव यथा निशा ।
अङ्गदस्य च वेगेन तद्राक्षसबलं महत् ।
प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ ३२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥

युद्धकाण्ड चतुःपञ्चाशः सर्गः (५४) >>


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


గమనిక : "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకము యొక్క ముద్రణ పూర్తి అయినది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed