Trideva Kruta Ravi Stuti – श्री रवि स्तुतिः (त्रिदेव कृतम्)



दृष्ट्वैवं देवदेवस्य रूपं भानोर्महात्मनः ।
विस्मयोत्फुल्लनयनास्तुष्टवुस्ते दिवाकरम् ॥ १ ॥

कृताञ्जलिपुटो भूत्वा ब्रह्मा स्तोतुं प्रचक्रमे ।
प्रणम्य शिरसा भानुमिदं वचनमब्रवीत् ॥ २ ॥

ब्रह्मोवाच ।
नमस्ते देवदेवेश सहस्रकिरणोज्ज्वल ।
लोकदीप नमस्तेऽस्तु नमस्ते कोणवल्लभ ॥ ३ ॥

भास्कराय नमो नित्यं खषोल्काय नमो नमः ।
विष्णवे कालचक्राय सोमायामिततेजसे ॥ ४ ॥

नमस्ते पञ्चकालाय इन्द्राय वसुरेतसे ।
खगाय लोकनाथाय एकचक्ररथाय च ॥ ५ ॥

जगद्धिताय देवाय शिवायामिततेजसे ।
तमोघ्नाय सुरूपाय तेजसां निधये नमः ॥ ६ ॥

अर्थाय कामरूपाय धर्मायामिततेजसे ।
मोक्षाय मोक्षरूपाय सूर्याय च नमो नमः ॥ ७ ॥

क्रोधलोभविहीनाय लोकानां स्थितिहेतवे ।
शुभाय शुभरूपाय शुभदाय शुभात्मने ॥ ८ ॥

शान्ताय शान्तरूपाय शान्तयेऽस्मासु वै नमः ।
नमस्ते ब्रह्मरूपाय ब्राह्मणाय नमो नमः ॥ ९ ॥

ब्रह्मदेवाय ब्रह्मरूपाय ब्रह्मणे परमात्मने ।
ब्रह्मणे च प्रसादं वै कुरु देव जगत्पते ॥ १० ॥

एवं स्तुत्वा रविं ब्रह्मा श्रद्धया परया विभो ।
तूष्णीमासीन्महाभाग प्रहृष्टेनान्तरात्मना ॥ ११ ॥

ब्रह्मणोऽनन्तरं रुद्रः स्तोत्रं चक्रे विभावसोः ।
त्रिपुरारिर्महातेजाः प्रणम्य शिरसा रविम् ॥ १२ ॥

महादेव उवाच ।
जय भाव जयाजेय जय हंस दिवाकर ।
जय शम्भो महाबाहो खग गोचर भूधर ॥ १३ ॥

जय लोकप्रदीपेन जय भानो जगत्पते ।
जय काल जयाऽनन्त संवत्सर शुभानन ॥ १४ ॥

जय देवाऽदितेः पुत्र कश्यपानन्दवर्धन ।
तमोघ्न जय सप्तेश जय सप्ताश्ववाहन ॥ १५ ॥

ग्रहेश जय कान्तीश जय कालेश शङ्कर ।
अर्थकामेश धर्मेश जय मोक्षेश शर्मद ॥ १६ ॥

जय वेदाङ्गरूपाय ग्रहरूपाय वै गतः ।
सत्याय सत्यरूपाय सुरूपाय शुभाय च ॥ १७ ॥

क्रोधलोभविनाशाय कामनाशाय वै जय ।
कल्माषपक्षिरूपाय यतिरूपाय शम्भवे ॥ १८ ॥

विश्वाय विश्वरूपाय विश्वकर्माय वै जय ।
जयोङ्कार वषट्कार स्वाहाकार स्वधाय च ॥ १९ ॥

जयाश्वमेधरूपाय चाग्निरूपार्यमाय च ।
संसारार्णवपीताय मोक्षद्वारप्रदाय च ॥ २० ॥

संसारार्णवमग्नस्य मम देव जगत्पते ।
हस्तावलम्बनो देव भव त्वं गोपतेऽद्भुत ॥ २१ ॥

ईशोऽप्येवमहीनाङ्गं स्तुत्वा भानुं प्रयत्नतः ।
विरराज महाराज प्रणम्य शिरसा रविम् ॥ २२ ॥

अथ विष्णुर्महातेजाः कृताञ्जलिपुटो रविम् ।
उवाच राजशार्दूल भक्त्या श्रद्धासमन्वितः ॥ २३ ॥

विष्णुरुवाच ।
नमामि देवदेवेशं भूतभावनमव्ययम् ।
दिवाकरं रविं भानुं मार्तण्डं भास्करं भगम् ॥ २४ ॥

इन्द्रं विष्णुं हरिं हंसमर्कं लोकगुरुं विभुम् ।
त्रिनेत्रं त्र्यक्षरं त्र्यङ्गं त्रिमूर्तिं त्रिगतिं शुभम् ॥ २५ ॥

षण्मुखाय नमो नित्यं त्रिनेत्राय नमो नमः ।
चतुर्विंशतिपादाय नमो द्वादशपाणिने ॥ २६ ॥

नमस्ते भूतपतये लोकानां पतये नमः ।
देवानां पतये नित्यं वर्णानां पतये नमः ॥ २७ ॥

त्वं ब्रह्मा त्वं जगन्नाथो रुद्रस्त्वं च प्रजापतिः ।
त्वं सोमस्त्वं तथादित्यस्त्वमोङ्कारक एव हि ॥ २८ ॥

बृहस्पतिर्बुधस्त्वं हि त्वं शुक्रस्त्वं विभावसुः ।
यमस्त्वं वरुणस्त्वं हि नमस्ते कश्यपात्मज ॥ २९ ॥

त्वया ततमिदं सर्वं जगत् स्थावरजङ्गमम् ।
त्वत्त एव समुत्पन्नं सदेवासुरमानुषम् ॥ ३० ॥

ब्रह्मा चाहं च रुद्रश्च समुत्पन्ना जगत्पते ।
कल्पादौ तु पुरा देव स्थितये जगतोऽनघ ॥ ३१ ॥

नमस्ते वेदरूपाय अह्नरूपाय वै नमः ।
नमस्ते ज्ञानरूपाय यज्ञाय च नमो नमः ॥ ३२ ॥

प्रसीदास्मासु देवेश भूतेश किरणोज्ज्वल ।
संसारार्णवमग्नानां प्रसादं कुरु गोपते ।
वेदान्ताय नमो नित्यं नमो यज्ञकलाय च ॥ ३३ ॥

इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि त्रिपञ्चाशदुत्तरशततमोऽध्याये त्रिदेवकृत श्री रवि स्तुतिः ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed