Sri Surya Stotram 2 (Deva Krutham) – श्री सूर्य स्तोत्रम् – २ (देव कृतम्)


देवा ऊचुः ।
नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुः स्वरूपरूपाय साम्नां धामवते नमः ॥ १ ॥

ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने ॥ २ ॥

चक्रिणे शङ्खिने धाम्ने शार्ङ्गिणे पद्मिने नमः ।
वरिष्ठाय वरेण्याय परस्मै परमात्मने ॥ ३ ॥

नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥ ४ ॥

नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ ५ ॥

शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद्भगवन् जगदुद्भ्रमता त्वया ॥ ६ ॥

भ्रमत्या विद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचिः ॥ ७ ॥

क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते ॥ ८ ॥

तावद्यावन्न सम्योगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः ॥ ९ ॥

सकलानि च सामानि निपतन्ति त्वदङ्गतः ।
ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः ॥ १० ॥

यतः साममयश्चैव ततो नाथ त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परं चापरमेव च ॥ ११ ॥

मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥ १२ ॥

इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥ १३ ॥

इति श्रीमार्कण्डेयपुराणे पञ्चसप्ततितमोऽध्याये देव कृत श्री सूर्य स्तोत्रम् ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed