Sundarakanda Sarga (Chapter) 3 – सुन्दरकाण्ड तृतीय सर्गः (३)


॥ लङ्काधिदेवताविजयः ॥

स लम्बशिखरे लम्बे लम्बतोयदसन्निभे ।
सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ॥ १ ॥

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ २

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।
सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ३ ॥

सुपुष्टबलसङ्घुष्टां यथैव विटपावतीम् ।
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ ४ ॥

भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।
तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥

मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् ।
शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ६ ॥

किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ।
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ ॥

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।
जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः ॥ ८ ॥

वज्रस्फटिकमुक्ताभिर्मणिकुट्‍टिमभूषितैः ।
तप्तहाटकनिर्यूहैः राजतामलपाण्डुरैः ॥ ९ ॥

वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ।
चारु सञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० ॥

क्रौञ्चबर्हिणसङ्घुष्टैः राजहंसनिषेवितैः ।
तूर्याभरण निर्घोषैः सर्वतः प्रतिनादिताम् ॥ ११ ॥

वस्वोकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।
खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः ॥ १२ ॥ [कामां]

तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम् ।
अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ १३ ॥

नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।
रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ १४ ॥

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।
प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ ॥

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ १६ ॥

समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् ।
लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥ १७ ॥

तां रत्नवसनोपेतां गोष्ठागारावतंसकाम् ।
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ १८ ॥

तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः ।
नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ १९ ॥

अथ सा हरिशार्दूलं प्रविशन्तं महाबलम् ।
नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ २० ॥

सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ।
स्वयमेवोत्थिता तत्र विकृतानन दर्शना ॥ २१ ॥

पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ।
मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ २२ ॥

कस्त्वं केन च कार्येण इह प्राप्तो वनालय ।
कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ २३ ॥

न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ।
रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ ॥

अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।
कथयिष्यामि ते तत्त्वं यन्मान्त्वं परिपृच्छसि ॥ २५ ॥

का त्वं विरूपनयना पुरद्वारेव तिष्ठसि ।
किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥ २६ ॥

हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७ ॥

अहं राक्षसराजस्य रावणस्य महात्मनः ।
आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८ ॥

न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया ।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ २९ ॥

अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम ।
सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥ ३० ॥

लङ्काया वचनं श्रुत्वा हनूमान् मारुतात्मजः ।
यत्नवान्स हरिश्रेष्ठः स्थितः शैल इवापरः ॥ ३१ ॥

स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ।
आबभाषेऽथ मेधावी सत्त्ववान्प्लवगर्षभः ॥ ३२ ॥

द्रक्ष्यामि नगरीं लङ्कां साट्‍टप्राकारतोरणाम् ।
इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे ॥ ३३ ॥

वनान्युपवनानीह लङ्कायाः काननानि च ।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ ॥

तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।
भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ३५ ॥

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिता ।
न शक्यमद्य ते द्रष्टुं पुरीयं वनराधम ॥ ३६ ॥

ततः स कपिशार्दूलस्तामुवाच निशाचरीम् ।
दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७ ॥

ततः कृत्वा महानादं सा वै लङ्का भयावहम् ।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ३८ ॥

ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् ।
ननाद सुमहानादं वीर्यवान्पवनात्मजः ॥ ३९ ॥

ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः ।
मुष्टिनाभिजघानैनां हनूमान् क्रोधमूर्छितः ॥ ४० ॥

स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः ।
सा तु तेन प्रहारेण विह्वलाङ्गी नीशाचरी ॥ ४१ ॥

पपात सहसा भूमौ विकृताननदर्शना ।
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ॥ ४२ ॥

कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ।
ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ॥ ४३ ॥

उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम् ।
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ ४४ ॥

समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ।
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥ ४५ ॥

निर्जिताहं त्वया वीर विक्रमेण महाबल ।
इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर ॥ ४६ ॥

स्वयम्भुवा पुरा दत्तं वरदानं यथा मम ।
यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ ४७ ॥

तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ।
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् ॥ ४८ ॥

स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ ४९ ॥

रक्षसां चैव सर्वेषां विनाशः समुपागतः ।
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ।
विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५० ॥

प्रविश्य शापोपहतां हरीश्वर
शुभां पुरीं राक्षसमुख्यपालिताम् ।
यदृच्छया त्वं जनकात्मजां सतीं
विमार्ग सर्वत्र गतो यथासुखम् ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे तृतयः सर्गः ॥ ३ ॥

सुन्दरकाण्ड – चतुर्थ सर्गः (४)  >>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed