Sundarakanda Sarga (Chapter) 4 – सुन्दरकाण्ड चतुर्थ सर्गः (४)


॥ लङ्कापुरीप्रवेशः ॥

स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् ।
विक्रमेण महातेजा हनूमान्कपिसत्तमः ॥ १ ॥

अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ।
निशि लङ्कां महासत्वो विवेश कपिकुञ्जरः ॥ २ ॥

प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः ।
चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥ ३ ॥

प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः ।
स महापथमास्थाय मुक्तापुष्पविराजितम् ॥ ४ ॥

[* सेवितां राक्षसैर्भीमैर्बलिभिः शस्त्रपाणिभिः । *]
ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ॥ ५
हसितोत्कृष्टनिनदैस्तूर्यघोषपुरःसरैः । ॥

वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ।
गृहमुख्यैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥ ६ ॥ [मेधैः]

प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः ।
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ॥ ७ ॥

वर्धमानगृहैश्चापि सर्वतः सुविभूषिता ।
तां चित्रमाल्याभरणां कपिराजहितङ्करः ॥ ८ ॥

राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च ।
भवनाद्भवनं गच्छन् ददर्श पवनात्मजः ॥ ९ ॥

विविधाकृतिरूपाणि भवनानि ततस्ततः ।
शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ॥ १० ॥

स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ।
शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम् ॥ ११ ॥

सोपाननिनदांश्चैव भवनेषु महात्मनाम् ।
आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ॥ १२ ॥

शुश्राव जपतां तत्र मन्त्रान्रक्षोगृहेषु वै ।
स्वाध्यायनिरतांश्चैव यातुधानान्ददर्श सः ॥ १३ ॥

रावणस्तव सम्युक्तान्गर्जतो राक्षसानपि ।
राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ॥ १४ ॥

ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ।
दीक्षितान् जटिलान्मुण्डान् गोऽजिनाम्बरवाससः ॥ १५ ॥

दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ।
कूटमुद्गरपाणींश्च दण्डायुधधरानपि ॥ १६ ॥

एकाक्षानेककर्णांश्च लम्बोदरपयोधरान् ।
करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा ॥ १७ ॥

धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान् ।
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥ १८ ॥

नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ।
नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ॥ १९ ॥

विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः ।
ध्वजीन्पताकिनश्चैव ददर्श विविधायुधान् ॥ २० ॥

शक्तिवृक्षायुधांश्चैव पट्‍टिशाशनिधारिणः ।
क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ॥ २१ ॥

स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ।
नानावेषसमायुक्तान्यथास्वैरगतान्बहून् ॥ २२ ॥

तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ।
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ॥ २३ ॥

रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः ।
स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ॥ २४ ॥

राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ।
पुण्डरीकावतंसाभिः परिखाभिः समावृतम् ॥ २५ ॥ [अलङ्कृतम्]

प्राकारावृतमत्यन्तं ददर्श स महाकपिः ।
त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ॥ २६ ॥

वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तथा ।
रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः ॥ २७ ॥

वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ।
भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ॥ २८ ॥

रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः ।
राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः ॥ २९ ॥

सहेमजाम्बूनदचक्रवालं
महार्हमुक्तामणिभूषितान्तम् ।
परार्थ्यकालागरुचन्दनाक्तं
स रावणान्तः पुरमाविवेश ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४ ॥

सुन्दरकाण्ड पञ्चम सर्गः (५ ) >>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed