Sri Venkatesa Vijayaarya Sapta Vibhakti Stotram – श्री वेङ्कटेश विजयार्या सप्तविभक्ति स्तोत्रम्


श्रीवेङ्कटाद्रिधामा भूमा भूमाप्रियः कृपासीमा ।
निरवधिकनित्यमहिमा भवतु जयी प्रणतदर्शितप्रेमा ॥ १ ॥

जय जनता विमलीकृतिसफलीकृतसकलमङ्गलाकार ।
विजयी भव विजयी भव विजयी भव वेङ्कटाचलाधीश ॥ २ ॥

कमनीयमन्दहसितं कञ्चन कन्दर्पकोटिलावण्यम् ।
पश्येयमञ्जनाद्रौ पुंसां पूर्वतनपुण्यपरिपाकम् ॥ ३ ॥

मरतकमेचकरुचिना मदनाज्ञागन्धिमध्यहृदयेन ।
वृषशैलमौलिसुहृदा महसा केनापि वासितं ज्ञेयम् ॥ ४ ॥

पत्यै नमो वृषाद्रेः करयुगपरिकर्मशङ्खचक्राय ।
इतरकरकमलयुगलीदर्शित-कटिबन्धदानमुद्राय ॥ ५ ॥

साम्राज्यपिशुनमकुटीसुघटललाटात् सुमङ्गला पाङ्गात् ।
स्मितरुचिफुल्लकपोलादपरो न परोऽस्ति वेङ्कटाद्रीशात् ॥ ६ ॥

सर्वाभरणविभूषितदिव्यावयवस्य वेङ्कटाद्रिपतेः ।
पल्लवपुष्पविभूषितकल्पतरोश्चापि का भिदा दृष्टा ॥ ७ ॥

लक्ष्मीललितपदाम्बुजलाक्षारसरञ्जितायतोरस्के ।
श्रीवेङ्कटाद्रिनाथे नाथे मम नित्यमर्पितो भारः ॥ ८ ॥

आर्यावृत्तसमेता सप्तविभक्तिर्वृषाद्रिनाथस्य ।
वादीन्द्रभीकृदाख्यैरार्यै रचिता जयत्वियं सततम् ॥ ९ ॥

इति श्रीवेङ्कटेशविजयार्यासप्तविभक्ति स्तोत्रम् सम्पूर्णम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed