Sri Venkateshwara Panchaka Stotram – श्री वेङ्कटेश्वर पञ्चक स्तोत्रम्


श्रीधराधिनायकं श्रितापवर्गदायकं
श्रीगिरीशमित्रमम्बुजेक्षणं विचक्षणम् ।
श्रीनिवासमादिदेवमक्षरं परात्परं
नागराड्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ १ ॥

उपेन्द्रमिन्दुशेखरारविन्दजामरेन्द्रबृ-
-न्दारकादिसेव्यमानपादपङ्कजद्वयम् ।
चन्द्रसूर्यलोचनं महेन्द्रनीलसन्निभम्
नागराड्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ २ ॥

नन्दगोपनन्दनं सनन्दनादिवन्दितं
कुन्दकुट्मलाग्रदन्तमिन्दिरामनोहरम् ।
नन्दकारविन्दशङ्खचक्रशार्ङ्गसाधनं
नागराड्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ ३ ॥

नागराजपालनं भोगिनाथशायिनं
नागवैरिगामिनं नगारिशत्रुसूदनम् ।
नागभूषणार्चितं सुदर्शनाद्युदायुधं
नागराड्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ ४ ॥

तारहीरशारदाभ्रतारकेशकीर्ति सं-
-विहारहारमादिमध्यान्तशून्यमव्ययम् ।
तारकासुराटवीकुठारमद्वितीयकं
नागराड्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ ५ ॥

इति श्री वेङ्कटेश्वर पञ्चक स्तोत्रम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed