Sri Venkatesha Tunakam – श्री वेङ्कटेश तूणकम्


वज्रशङ्खबाणचापचिह्निताङ्घ्रिपङ्कजं
नर्तितायुतारुणाग्र्यनिस्सरत्प्रभाकुलम् ।
वज्रपाणिमुख्यलेखवन्दितं परात्परं
सज्जनार्चितं वृषाद्रिसार्वभौममाश्रये ॥ १ ॥

पञ्चबाणमोहनं विरिञ्चिजन्मकारणं
काञ्चनाम्बरोज्ज्वलं सचञ्चलाम्बुदप्रभम् ।
चञ्चरीकसञ्चयाभचञ्चलालकावृतं
किञ्चिदुद्धतभ्रुवं च वञ्चकं हरिं भजे ॥ २ ॥

मङ्गलाधिदैवतं भुजङ्गमाङ्गशायिनं
सङ्गरारिभङ्गशौण्डमङ्गदाधिकोज्ज्वलम् ।
अङ्गसङ्गिदेहिनामभङ्गुरार्थदायिनं
तुङ्गशेषशैलभव्यशृङ्गसङ्गिनं भजे ॥ ३ ॥

कम्बुकण्ठमम्बुजातडम्बराम्बकद्वयं
शम्बरारितातमेनमम्बुराशितल्पगम् ।
बम्भरार्भकालिभव्यलम्बमानमौलिकं
शङ्खकुन्ददन्तवन्तमुत्तमं भजामहे ॥ ४ ॥

पङ्कजासनार्चतं शशाङ्कशोभिताननं
कङ्कणादिदिव्यभूषणाङ्कितं वरप्रदम् ।
कुङ्कुमाङ्कितोरसं सशङ्खचक्रनन्दकं
वेङ्कटेशमिन्दिरापदाङ्कितं भजामहे ॥ ५ ॥

इति श्री वेङ्कटेश तूणकम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed