Sri Srinivasa Stuti (Skanda Puranam) – श्री श्रीनिवास स्तुतिः (स्कान्दपुराणे)


नमो देवाधिदेवाय वेङ्कटेशाय शार्ङ्गिणे ।
नारायणाद्रिवासाय श्रीनिवासाय ते नमः ॥ १ ॥

नमः कल्मषनाशाय वासुदेवाय विष्णवे ।
शेषाचलनिवासाय श्रीनिवासाय ते नमः ॥ २ ॥

नमस्त्रैलोक्यनाथाय विश्वरूपाय साक्षिणे ।
शिवब्रह्मादिवन्द्याय श्रीनिवासाय ते नमः ॥ ३ ॥

नमः कमलनेत्राय क्षीराब्धिशयनाय ते ।
दुष्टराक्षससंहर्त्रे श्रीनिवासाय ते नमः ॥ ४ ॥

भक्तप्रियाय देवाय देवानां पतये नमः ।
प्रणतार्तिविनाशाय श्रीनिवासाय ते नमः ॥ ५ ॥

योगिनां पतये नित्यं वेदवेद्याय विष्णवे ।
भक्तानां पापसंहर्त्रे श्रीनिवासाय ते नमः ॥ ६ ॥

इति श्रीस्कान्दपुराणे वेङ्कटाचलमाहात्म्ये त्रयोविंशोऽध्याये पद्मनाभाख्यद्विज कृत श्रीनिवास स्तुतिः ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed