Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् –
तारे तारिणि देवि विश्वजननि प्रौढप्रतापान्विते
तारे दिक्षु विपक्ष यक्ष दलिनि वाचा चला वारुणी ।
लक्ष्मीकारिणि कीर्तिधारिणि महासौभाग्यसन्दायिनि ।
रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ।
अथ स्तोत्रम् –
अश्वारूढे रक्तवर्णे स्मितसौम्यमुखाम्बुजे ।
राज्यस्त्री सर्वजन्तूनां वशीकरणनायिके ॥ १ ॥
वशीकरणकार्यार्थं पुरा देवेन निर्मितम् ।
तस्माद्वश्यवाराही सर्वान्मे वशमानय ॥ २ ॥
यथा राजा महाज्ञानं वस्त्रं धान्यं महावसु ।
मह्यं ददाति वाराहि यथात्वं वशमानय ॥ ३ ॥
अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च ।
यथा मामेवं स्मरति तथा वश्यं वशं कुरु ॥ ४ ॥
चामरं दोलिकां छत्रं राजचिह्नानि यच्छति ।
अभीष्ठं सम्प्रदोराज्यं यथा देवि वशं कुरु ॥ ५ ॥
मन्मथस्मरणाद्रामा रतिर्यातु मयासह ।
स्त्रीरत्नेषु महत्प्रेम तथा जनयकामदे ॥ ६ ॥
मृग पक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः ।
अनुगच्छति मामेव त्वत्प्रसादाद्दयां कुरु ॥ ७ ॥
वशीकरणकार्यार्थं यत्र यत्र प्रयुञ्जति ।
सम्मोहनार्थं वर्धित्वात्तत्कार्यं तत्र कर्षय ॥ ८ ॥
वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते ।
तथा मां कुरु वाराही वश्यकार्य प्रदर्शय ॥ ९ ॥
वशीकरण बाणास्त्रं भक्त्यापद्धिनिवारणम् ।
तस्माद्वश्यवाराही जगत्सर्वं वशं कुरु ॥ १० ॥
वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः ।
अभीष्टं प्राप्नुयाद्भक्तो रमां राज्यं यथापिवः ॥ ११ ॥
इति अथर्वशिखायां वश्यवाराही स्तोत्रम् ।
इतर श्री वाराही स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.