Sri Sudarshana Kavacham 3 – श्री सुदर्शन कवचम् ३


अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायण ऋषिः श्रीसुदर्शनो देवता गायत्री छन्दः दुष्टं दारयतीति कीलकं, हन हन द्विष इति बीजं, सर्वशत्रुक्षयार्थे सुदर्शनस्तोत्रपाठे विनियोगः ॥

ऋष्यादि न्यासः –
ओं नारायण ऋषये नमः शिरसि ।
ओं गायत्री छन्दसे नमः मुखे ।
ओं दुष्टं दारयतीति कीलकाय नमः हृदये ।
ओं ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः गुह्ये ।
ओं सुदर्शने ज्वलत्पावकसङ्काशेति कीलकाय नमः सर्वाङ्गे ।
करन्यासः –
ओं नारायणऋषये नमः अङ्गुष्ठाभ्यां नमः ।
ओं गायत्रीछन्दसे नमः तर्जनीभ्यां नमः ।
ओं दुष्टं दारयतीति कीलकाय नमः मध्यमाभ्यां नमः ।
ओं ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः अनामिकाभ्यां नमः ।
ओं सर्वशत्रुक्षयार्थे श्रीसुदर्शनदेवतेति करतल करपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं नारायणऋषये नमः हृदयाय नमः ।
ओं गायत्रीछन्दसे नमः शिरसे स्वाहा ।
ओं दुष्टं दारयतीति कीलकाय नमः शिखायै वषट् ।
ओं ह्रां ह्रीं ह्रूं द्विष इति बीजाय नमः कवचाय हुम् ।
ओं सुदर्शन ज्वलत्पावकसङ्काशेति नेत्रत्रयाय वौषट् ।
ओं सर्वशत्रुक्षयार्थे सुदर्शनदेवतेति अस्त्राय फट् ।

अथ ध्यानम् –
सुदर्शनं महावेगं गोविन्दस्य प्रियायुधम् ।
ज्वलत्पावकसङ्काशं सर्वशत्रुविनाशनम् ॥ १ ॥

कृष्णप्राप्तिकरं शश्वद्भक्तानां भयभञ्जनम् ।
सङ्ग्रामे जयदं तस्माद्ध्यायेदेवं सुदर्शनम् ॥ २ ॥

अथ मन्त्रः –
ओं ह्रां ह्रीं ह्रूं नमो भगवते भो भो सुदर्शनचक्र दुष्टं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु हुं फट् स्वाहा ॥

अथ कवचम् –
सुदर्शनमहामन्त्रं वल्लभेन प्रकाशितम् ।
वैष्णवानां हि रक्षार्थं वैष्णवानां हिताय च ।
यन्त्रमध्ये निरूप्यं च चक्राकारं च लिख्यते ॥ १ ॥

उत्तरागर्भरक्षी च परीक्षितहिते रतः ।
ब्रह्मास्त्रवारणं चैव भक्तानां भयनाशनम् ॥ २ ॥

वधं च दुष्टदैत्यानां खण्डं खण्डं च कारकः ।
वैष्णवानां हितार्थाय चक्रं धारयते हरिः ॥ ३ ॥

पीताम्बरः परब्रह्म वनमाली गदाधरः ।
कोटिकन्दर्पलावण्यो गोपीनां प्राणदायकः ॥ ४ ॥

श्रीवल्लभः कृपानाथो गिरीन्द्रः शत्रुमर्दनः ।
दावाग्निदर्पहर्ता च गोपीभयनिवारकः ॥ ५ ॥

गोपालो गोपकन्याभिः समावृत्तोऽधितिष्ठते ।
विद्वज्जनप्रकाशी च रामकृष्णजगन्मयः ॥ ६ ॥

गोगोपिकाशताकीर्णो वेणुवादनतत्परः ।
कामरूपी कलावांश्च कामिनां कामदो विभुः ॥ ७ ॥

मन्मथो मथुरानाथो माधवो मकरध्वजः ।
श्रीधरः श्रीकरः श्रीशः श्रीनिवासः सतां गतिः ॥ ८ ॥

भूतीशो भूतिदो विष्णुर्भूधरो भूतभावनः ।
सर्वदुःखहरो वीरो दुष्टदानवनाशनः ॥ ९ ॥

श्रीनृसिंहो महाविष्णुः महादित्यश्च तेजसः ।
वादिनां दयया नित्यं प्रणवो ज्योतिरूपकः ॥ १० ॥

भानुकोटिप्रकाशी च निश्चितार्थस्वरूपकः ।
भक्तप्रियः पद्मनेत्रो भक्तानां वाञ्छितप्रदः ॥ ११ ॥

हृदि कृष्णो मुखे कृष्णो नेत्रे कृष्ण स्वरूपकः ।
भक्तिप्रियश्च श्रीकृष्णः सर्वं कृष्णमयं जगत् ॥ १२ ॥

कालमृत्युः यमाहूतो भूतप्रेतो न दृश्यते ।
पिशाचा राक्षसाश्चैव हृदिरोगाश्च दारुणाः ॥ १३ ॥

भूचराः खेचराः सर्वे डाकिनी शाकिनी तथा ।
नाटकं चेटकं चैव छलं छिद्रं न दृश्यते ॥ १४ ॥

अकाले मरणं तस्य शोकदुःखं न लभ्यते ।
सर्वविघ्नाः क्षयं यान्ति रक्ष मां गोपिकाप्रिय ॥ १५ ॥

भयं दावाग्नि चोराणां विग्रहे राजसङ्कटे ।
व्यालव्याघ्रमहाशत्रुवैरिबन्धो न लभ्यते ॥ १६ ॥

आधिव्याधिहरं चैव ग्रहपीडाविनाशनम् ।
सङ्ग्रामे च जयं तस्मात् ध्यायेद्देवं सुदर्शनम् ॥ १७ ॥

इमान् सप्तदशश्लोकान् यन्त्रमध्ये लिखेत्तु यः ।
वंशवृद्धिर्भवेत्तस्य श्रोता च फलमाप्नुयात् ॥ १८ ॥

सुदर्शनमिदं यन्त्रं लभते जयमङ्गलम् ।
सर्वपापहरं कृष्ण त्वामहं शरणं गतः ॥ १९ ॥

इति श्रीमद्वल्लभाचार्यचरण विरचितं श्री सुदर्शन कवचम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed