Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बलिरुवाच ।
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः ।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥ १ ॥
सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव ।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥ २ ॥
दुष्टराहुगलच्छेदशोणितारुणतारकम् ।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥ ३ ॥
यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः ।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥ ४ ॥
धारायां द्वादशादित्याः समस्ताश्च हुताशनाः ।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥ ५ ॥
समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः ।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥ ६ ॥
यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम् ।
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम् ॥ ७ ॥
भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम् ।
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम् ॥ ८ ॥
नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम् ।
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम् ॥ ९ ॥
स्वभावतेजसा युक्तं यदर्काग्निमयं महत् ।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥ १० ॥
दुर्वृत्तदैत्यमथनं जगतः परिपालकम् ।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥ ११ ॥
करोतु मे सदा शर्म धर्मतां च प्रयातु मे ।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥ १२ ॥
स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम् ।
प्रसीद सम्युगेऽरिणां सुदर्शनसुदर्शनम् ॥ १३ ॥
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ।
जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् ।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥ १४ ॥
इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्याये बलि कृत चक्र स्तवः ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.