Sri Shyamala Kavacham – श्री श्यामला कवचम्


श्री देव्युवाच ।
साधुसाधु महादेव कथयस्व महेश्वर ।
येन सम्पद्विधानेन साधकानां जयप्रदम् ॥ १ ॥

विना जपं विना होमं विना मन्त्रं विना नुतिम् ।
यस्य स्मरणमात्रेण साधको धरणीपतिः ॥ २ ॥

श्री भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं परम् ।
गोपनीयं प्रयत्नेन मौनेन जपमाचरेत् ॥ ३ ॥

मातङ्गीकवचं दिव्यं सर्वरक्षाकरं नृणाम् ।
कवित्वं च महत्वं च गजावाजिसुतादयः ॥ ४ ॥

शुभदं सुखदं नित्यमणिमादिप्रदायकम् ।
ब्रह्मविष्णुमहेशानां तेषामाद्या महेश्वरी ॥ ५ ॥

श्लोकार्धं श्लोकमेकं वा यस्तु सम्यक्पठेन्नरः ।
तस्य हस्ते सदैवास्ते राज्यलक्ष्मीर्न संशयः ॥ ६ ॥

साधकः श्यामलां ध्यायन् कमलासनसंस्थितः ।
योनिमुद्रां करे बध्वा शक्तिध्यानपरायणः ॥ ७ ॥

कवचं तु पठेद्यस्तु तस्य स्युः सर्वसम्पदः ।
पुत्रपौत्रादिसम्पत्तिरन्ते मुक्तिश्च शाश्वती ॥ ८ ॥

ब्रह्मरन्ध्रं सदा पायाच्छ्यामला मन्त्रनायिका ।
ललाटं रक्षतां नित्यं कदम्बेशी सदा मम ॥ ९ ॥

भ्रुवौ पायच्च सुमुखी अव्यान्नेत्रे च वैणिकी ।
वीणावती नासिकां च मुखं रक्षतु मन्त्रिणी ॥ १० ॥

सङ्गीतयोगिनी दन्तान् अव्यादोष्ठौ शुकप्रिया ।
चुबुकं पातु मे श्यामा जिह्वां पायान्महेश्वरी ॥ ११ ॥

कर्णौ देवी स्तनौ काली पातु कात्यायनी मुखम् ।
नीपप्रिया सदा रक्षेदुदरं मम सर्वदा ॥ १२ ॥

प्रियङ्करी प्रियव्यापी नाभिं रक्षतु मुद्रिणी ।
स्कन्धौ रक्षतु शर्वाणी भुजौ मे पातु मोहिनी ॥ १३ ॥

कटिं पातु प्रधानेशी पातु पादौ च पुष्पिणी ।
आपादमस्तकं श्यामा पूर्वे रक्षतु पुष्टिदा ॥ १४ ॥

उत्तरे त्रिपुरा रक्षेद्विद्या रक्षतु पश्चिमे ।
विजया दक्षिणे पातु मेधा रक्षतु चानले ॥ १५ ॥

प्राज्ञा रक्षतु नैरृत्यां वायव्यां शुभलक्षणा ।
ईशान्यां रक्षताद्देवी मातङ्गी शुभकारिणी ॥ १६ ॥

ऊर्ध्वं पातु सदा देवी देवानां हितकारिणी ।
पातले पातु मां नित्या वासुकी विश्वरूपिणी ॥ १७ ॥

अकारादिक्षकारान्तमातृकारूपधारिणी ।
आपादमस्तकं पायादष्टमातृस्वरूपिणी ॥ १८ ॥

अवर्गसम्भवा ब्राह्मी मुखं रक्षतु सर्वदा ।
कवर्गस्था तु माहेशी पातु दक्षभुजं तथा ॥ १९ ॥

चवर्गस्था तु कौमारी पायान्मे वामकं भुजम् ।
दक्षपादं समाश्रित्य टवर्गं पातु वैष्णवी ॥ २० ॥

तवर्गजन्मा वाराही पायान्मे वामपादकम् ।
तथा पवर्गजेन्द्राणी पार्श्वादीन् पातु सर्वदा ॥ २१ ॥

यवर्गस्था तु चामुण्डा हृद्दोर्मूले च मे तथा ।
हृदादिपाणिपादान्तजठराननसञ्ज्ञिकम् ॥ २२ ॥

चण्डिका च शवर्गस्था रक्षतां मम सर्वदा ।
विशुद्धं कण्ठमूलं तु रक्षतात्षोडशस्वराः ॥ २३ ॥

ककारादि ठकारान्त द्वादशार्णं हृदम्बुजम् ।
मणिपूरं डाधिफान्त दशवर्णस्वरूपिणी ॥ २४ ॥

स्वाधिष्ठानं तु षट्पत्रं बादिलान्तस्वरूपिणी ।
वादिसान्तस्वरूपाऽव्यान्मूलाधारं चतुर्दलम् ॥ २५ ॥

हङ्क्षार्णमाज्ञा द्विदलं भ्रुवोर्मध्यं सदावतु ।
अकारादिक्षकारान्तमातृकाबीजरूपिणि ॥ २६ ॥

मातङ्गी मां सदा रक्षेदापादतलमस्तकम् ।
इमं मन्त्रं समुद्धार्य धारयेद्वामके भुजे ॥ २७ ॥

कण्ठे वा धारयेद्यस्तु स वै देवो महेश्वरः ।
तं दृष्ट्वा देवताः सर्वाः प्रणमन्ति सुदूरतः ॥ २८ ॥

तस्य तेजः प्रभावेन सम्यग्गन्तुं न शक्यते ।
इन्द्रादीनां लभेत्सत्यं भूपतिर्वशगो भवेत् ॥ २९ ॥

वाक्सिद्धिर्जायते तस्य अणिमाद्यष्टसिद्धयः ।
अज्ञात्वा कवचं देव्याः श्यामलां यो जपेन्नरः ॥ ३० ॥

तस्यावश्यं तु सा देवी योगिनी भक्षयेत्तनुम् ।
इह लोके सदा दुःखं अतो दुःखी भविष्यति ॥ ३१ ॥

जन्मकोटि सदा मूको मन्त्रसिद्धिर्न विद्यते ।
गुरुपादौ नमस्कृत्य यथामन्त्रं भवेत्सुधीः ॥ ३२ ॥

तथा तु कवचं देव्याः सफलं गुरुसेवया ।
इह लोके नृपो भूत्वा पठेन्मुक्तो भविष्यति ॥ ३३ ॥

बोधयेत्परशिष्याय दुर्जनाय सुरेश्वरि ।
निन्दकाय कुशीलाय शक्तिहिंसापराय च ॥ ३४ ॥

यो ददाति न सिध्येत मातङ्गीकवचं शुभम् ।
न देयं सर्वदा भद्रे प्राणैः कण्ठगतैरपि ॥ ३५ ॥

गोप्याद्गोप्यतरं गोप्यं गुह्याद्गुह्यतमं महत् ।
दद्याद्गुरुः सुशिष्याय गुरुभक्तिपराय च ।
शिवे नष्टे गुरुस्त्राता गुरौ नष्टे न कश्चन ॥ ३६ ॥

इति श्रीशक्तितन्त्रमहार्णवे श्री श्यामला कवचम् ।


इतर श्री श्यामला स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed