Sri Shatrugna Kavacham – श्री शत्रुघ्न कवचम्


अगस्त्य उवाच ।
अथ शत्रुघ्नकवचं सुतीक्ष्ण शृणु सादरम् ।
सर्वकामप्रदं रम्यं रामसद्भक्तिवर्धनम् ॥ १ ॥

शत्रुघ्नं धृतकार्मुकं धृतमहातूणीरबाणोत्तमं
पार्श्वे श्रीरघुनन्दनस्य विनयाद्वामेस्थितं सुन्दरम् ।
रामं स्वीयकरेण तालदलजं धृत्वाऽतिचित्रं वरं
सूर्याभं व्यजनं सभास्थितमहं तं वीजयन्तं भजे ॥ २ ॥

अस्य श्रीशत्रुघ्नकवचमन्त्रस्य अगस्तिरृषिः श्रीशत्रुघ्नो देवता अनुष्टुप् छन्दः सुदर्शन इति बीजं कैकेयीनन्दन इति शक्तिः श्रीभरतानुज इति कीलकं भरतमन्त्रीत्यस्त्रं श्रीरामदास इति कवचं लक्ष्मणांशज इति मन्त्रः श्रीशत्रुघ्न प्रीत्यर्थं सकलमनःकामनासिद्ध्यर्थं जपे विनियोगः ॥

अथ करन्यासः ।
ओं शत्रुघ्नाय अङ्गुष्ठाभ्यां नमः ।
ओं सुदर्शनाय तर्जनीभ्यां नमः ।
ओं कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ओं भरतानुजाय अनामिकाभ्यां नमः ।
ओं भरतमन्त्रिणे कनिष्ठिकाभ्यां नमः ।
ओं रामदासाय करतलकरपृष्ठाभ्यां नमः ।

अथ अङ्गन्यासः ।
ओं शत्रुघ्नाय हृदयाय नमः ।
ओं सुदर्शनाय शिरसे स्वाहा ।
ओं कैकेयीनन्दनाय शिखायै वषट् ।
ओं भरतानुजाय कवचाय हुम् ।
ओं भरतमन्त्रिणे नेत्रत्रयाय वौषट् ।
ओं रामदासाय अस्त्राय फट् ।
ओं लक्ष्मणांशजेति दिग्बन्धः ।

अथ ध्यानम् ।
रामस्य संस्थितं वामे पार्श्वे विनयपूर्वकम् ।
कैकेयीनन्दनं सौम्यं मुकुटेनातिरञ्जितम् ॥ १ ॥

रत्नकङ्कणकेयूरवनमालाविराजितम् ।
रशनाकुण्डलधरं रत्नहारसुनूपुरम् ॥ २ ॥

व्यजनेन वीजयन्तं जानकीकान्तमादरात् ।
रामन्यस्तेक्षणं वीरं कैकेयीतोषवर्धनम् ॥ ३ ॥

द्विभुजं कञ्जनयनं दिव्यपीताम्बरान्वितम् ।
सुभुजं सुन्दरं मेघश्यामलं सुन्दराननम् ॥ ४ ॥

रामवाक्ये दत्तकर्णं रक्षोघ्नं खड्गधारिणम् ।
धनुर्बाणधरं श्रेष्ठं धृततूणीरमुत्तमम् ॥ ५ ॥

सभायां संस्थितं रम्यं कस्तूरीतिलकाङ्कितम् ।
मुकुटस्थावतंसेन शोभितं च स्मिताननम् ॥ ६ ॥

रविवंशोद्भवं दिव्यरूपं दशरथात्मजम् ।
मथुरावासिनं देवं लवणासुरमर्दनम् ॥ ७ ॥

इति ध्यात्वा तु शत्रुघ्नं रामपादेक्षणं हृदि ।
पठनीयं वरं चेदं कवचं तस्य पावनम् ॥ ८ ॥

अथ कवचम् ।
पूर्वे त्ववतु शत्रुघ्नः पातु याम्ये सुदर्शनः ।
कैकेयीनन्दनः पातु प्रतीच्यां सर्वदा मम ॥ ९ ॥

पातूदीच्यां रामबन्धुः पात्वधो भरतानुजः ।
रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥ १० ॥

सर्वतः पातु मामत्र कैकेयीतोषवर्धनः ।
श्यामलाङ्गः शिरः पातु भालं श्रीलक्ष्मणांशजः ॥ ११ ॥

भ्रुवोर्मध्ये सदा पातु सुमुखोऽत्रावनीतले ।
श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥ १२ ॥

कर्णौ कुण्डलकर्णोऽव्यान्नासाग्रं नृपवंशजः ।
मुखं मम युवा पातु पातु वाणीं स्फुटाक्षरः ॥ १३ ॥

जिह्वां सुबाहुतातोऽव्याद्यूपकेतुपिता द्विजान् ।
चुबुकं रम्यचुबुकः कण्ठं पातु सुभाषणः ॥ १४ ॥

स्कन्धौ पातु महातेजाः भुजौ राघववाक्यकृत् ।
करौ मे कङ्कणधरः पातु खड्गी नखान्मम ॥ १५ ॥

कुक्षी रामप्रियः पातु पातु वक्षो रघूत्तमः ।
पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥ १६ ॥

जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः ।
कटी भरतमन्त्री मे गुह्यं श्रीरामसेवकः ॥ १७ ॥

रामार्पितमनाः पातु लिङ्गमूरू स्मिताननः ।
कोदण्डधारी पात्वत्र जानुनी मम सर्वदा ॥ १८ ॥

राममित्रं पातु जङ्घे गुल्फौ पातु सुनूपुरः ।
पादौ नृपतिपूज्योऽव्याच्छ्रीमान् पादाङ्गुलीर्मम ॥ १९ ॥

पात्वङ्गानि समस्तानि ह्युदाराङ्गः सदा मम ।
रोमाणि रमणीयोऽव्याद्रात्रौ पातु सुधार्मिकः ॥ २० ॥

दिवा मे सत्यसन्धोऽव्याद्भोजने शरसत्करः ।
गमने कलकण्ठोऽव्यात्सर्वदा लवणान्तकः ॥ २१ ॥

एवं शत्रुघ्नकवचं मया ते समुदीरितम् ।
ये पठन्ति नरास्त्वेतत्ते नराः सौख्यभागिनः ॥ २२ ॥

शत्रुघ्नस्य वरं चेदं कवचं मङ्गलप्रदम् ।
पठनीयं नरैर्भक्त्या पुत्रपौत्रप्रवर्धनम् ॥ २३ ॥

अस्य स्तोत्रस्य पाठेन यं यं कामं नरोऽर्थयेत् ।
तं तं लभेन्निश्चयेन सत्यमेतद्वचो मम ॥ २४ ॥

पुत्रार्थी प्राप्नुयात्पुत्रं धनार्थी धनमाप्नुयात् ।
इच्छाकामं तु कामार्थी प्राप्नुयात्पठनादिना ॥ २५ ॥

कवचस्यास्य भूम्यां हि शत्रुघ्नस्य विनिश्चयात् ।
तस्मादेतत्सदा भक्त्या पठनीयं नरैः शुभम् ॥ २६ ॥

इति श्रीमदानन्दरामायणे सुतीक्ष्णागस्त्यसंवादे श्रीशत्रुघ्नकवचम् ।


इतर श्री राम स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed