Sri Rajarajeswari Mantra Matruka Stava – श्री राजराजेश्वरी मन्त्रमातृका स्तवः


कल्याणायुत पूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीं
पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।
सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १ ॥

एकारादि समस्तवर्ण विविधाकारैक चिद्रूपिणीं
चैतन्यात्मक चक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् ।
भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ २ ॥

ईहाधिक्परयोगिबृन्दविनुतां स्वानन्दभूतां परां
पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरी रूपिणीम् ।
आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ३ ॥

लक्ष्यालक्ष्यनिरीक्षणां निरूपमां रुद्राक्षमालाधरां
त्र्यक्षार्धाकृति दक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।
भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ४ ॥

ह्रीं‍बीजागत नादबिन्दुभरितामोङ्कार नादात्मिकां
ब्रह्मानन्द घनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।
इच्छाज्ञाकृतिनीं महीं गतवतीं गन्धर्वसंसेवितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ५ ॥

हर्षोन्मत्त सुवर्णपात्रभरितां पीनोन्नतां घूर्णितां
हुङ्कारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् ।
सारासारविचार चारुचतुरां वर्णाश्रमाकारिणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ६ ॥

सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीं
सम्योगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् ।
सर्वान्तर्गतिशालिनीं शिवतनूसन्दीपिनीं दीपिनीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ७ ॥

कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं
कारुण्याम्बुधि सर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।
पञ्चब्रह्म सनातनासनगतां गेयां सुयोगान्वितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ८ ॥

हस्त्युत्कुम्भनिभ स्तनद्वितयतः पीनोन्नतादानतां
हाराद्याभरणां सुरेन्द्रविनुतां शृङ्गारपीठालयाम् ।
योन्याकारक योनिमुद्रितकरां नित्यां नवार्णात्मिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ९ ॥

लक्ष्मीलक्षणपूर्ण भक्तवरदां लीलाविनोदस्थितां
लाक्षारञ्जित पादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् ।
लोकालोकित लोककामजननीं लोकाश्रयाङ्कस्थितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १० ॥

ह्रीं‍काराश्रित शङ्करप्रियतनुं श्रीयोगपीठेश्वरीं
माङ्गल्यायुत पङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।
कारुण्येन विशेषिताङ्ग सुमहालावण्य संशोभितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ११ ॥

सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगां
सत्यां सर्वमयीं सहस्रदलजां सत्त्वार्णवोपस्थिताम् ।
सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १२ ॥

कादिक्षान्त सुवर्णबिन्दु सुतनुं सर्वाङ्गसंशोभितां
नानावर्ण विचित्रचित्रचरितां चातुर्यचिन्तामणीम् ।
चित्रानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १३ ॥

लक्ष्मीशान विधीन्द्र चन्द्रमकुटाद्यष्टाङ्ग पीठाश्रितां
सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।
गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गागणेशप्रियां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १४ ॥

ह्रीं‍कूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीं
वामाचारपरायणीं सुकुलजां बीजावतीं मुद्रिणीम् ।
कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १५ ॥

या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी
या ब्रह्मादिपिपीलिकान्त जगदानन्दैकसन्दायिनी ।
या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ १६ ॥

इति श्री राजराजेश्वरी मन्त्रमातृका स्तवः ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed