Tithi Nitya Devi Dhyana Shloka – नित्या देव्यः ध्यान श्लोकाः


कामेश्वरी –
देवीं ध्यायेज्जगद्धात्रीं जपाकुसुमसन्निभां
बालभानुप्रतीकाशां शातकुम्भसमप्रभाम् ।
रक्तवस्त्रपरीधानां सम्पद्विद्यावशङ्करीं
नमामि वरदां देवीं कामेशीमभयप्रदाम् ॥ १ ॥

भगमालिनी –
भगरूपां भगमयां दुकूलवसनां शिवां
सर्वालङ्कारसम्युक्तां सर्वलोकवशङ्करीम् ।
भगोदरीं महादेवीं रक्तोत्पलसमप्रभां
कामेश्वराङ्कनिलयां वन्दे श्रीभगमालिनीम् ॥ २ ॥

नित्यक्लिन्ना –
पद्मरागमणिप्रख्यां हेमताटङ्कभूषितां
रक्तवस्त्रधरां देवीं रक्तमाल्यानुलेपनाम् ।
अञ्जनाञ्चितनेत्रान्तां पद्मपत्रनिभेक्षणां
नित्यक्लिन्नां नमस्यामि चतुर्भुजविराजिताम् ॥ ३ ॥

भेरुण्डा –
शुद्धस्फटिकसङ्काशां पद्मपत्रसमप्रभां
मध्याह्नादित्यसङ्काशां शुभ्रवस्त्रसमन्विताम् ।
श्वेतचन्दनलिप्ताङ्गीं शुभ्रमाल्यविभूषितां
बिभ्रतीं चिन्मयीं मुद्रामक्षमालां च पुस्तकम् ।
सहस्रपत्रकमले समासीनां शुचिस्मितां
सर्वविद्याप्रदां देवीं भेरुण्डां प्रणमाम्यहम् ॥ ४ ॥

वह्निवासिनि –
वह्निकोटिप्रतीकाशां सूर्यकोटिसमप्रभां
अग्निज्वालासमाकीर्णां सर्वरोगोपहारिणीम् ।
कालमृत्युप्रशमनीमपमृत्युनिवारिणीं
परमायुष्यदां वन्दे नित्यां श्रीवह्निवासिनीम् ॥ ५ ॥

महावज्रेश्वरि –
तप्तकाञ्चनसङ्काशां कनकाभरणान्वितं
हेमताटङ्कसम्युक्तां कस्तूरीतिलकान्विताम् ।
हेमचिन्ताकसम्युक्तां पूर्णचन्द्रमुखाम्बुजां
पीताम्बरसमोपेतां पुष्पमाल्यविभूषिताम् ।
मुक्ताहारसमोपेतां मुकुटेन विराजितां
महावज्रेश्वरीं वन्दे सर्वैश्वर्यफलप्रदाम् ॥ ६ ॥

शिवदूती –
बालसूर्यप्रतीकाशां बन्धूकप्रसवारुणां
विधिविष्णुशिवस्तुत्यां देवगन्धर्वसेविताम् ।
रक्तारविन्दसङ्काशां सर्वाभरणभूषितां
शिवदूतीं नमस्यामि रत्नसिंहासनस्थिताम् ॥ ७ ॥

त्वरिता –
रक्तारविन्दसङ्काशामुद्यत्सूर्यसमप्रभां
दधतीमङ्कुशं पाशं बाणं चापं मनोहरम् ।
चतुर्भुजां महादेवीमप्सरोगणसङ्कुलां
नमामि त्वरितां नित्यां भक्तानामभयप्रदम् ॥ ८ ॥

कुलसुन्दरी –
अरुणकिरणजालैरञ्जिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥ ९ ॥

नित्या –
उद्यत्प्रद्योतननिभां जपाकुसुमसन्निभां
हरिचन्दनलिप्ताङ्गीं रक्तमाल्यविभूषिताम् ।
रत्नाभरणभूषाङ्गीं रक्तवस्त्रसुशोभितां
जगदम्बां नमस्यामि नित्यां श्रीपरमेश्वरीम् ॥ १० ॥

नीलपताका –
पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीं
दशहस्तां लसन्मुक्ताप्रायाभरणमण्डिताम् ।
नीलमेघसमप्रख्यां धूम्रार्चिसदृशप्रभां
नीलपुष्पस्रजोपेतां ध्यायेन्नीलपताकिनीम् ॥ ११ ॥

विजया –
उद्यदर्कसमप्रभां दाडिमीपुष्पसन्निभां
रत्नकङ्कणकेयूरकिरीटाङ्गदसम्युताम् ।
देवगन्धर्वयोगीशमुनिसिद्धनिषेवितां
नमामि विजयां नित्यां सिंहोपरिकृतासनाम् ॥ १२ ॥

सर्वमङ्गला –
रक्तोत्पलसमप्रख्यां पद्मपत्रनिभेक्षणां
इक्षुकार्मुकपुष्पौघपाशाङ्कुशसमन्विताम् ।
सुप्रसन्नां शशिमुखीं नानारत्नविभूषितां
शुभ्रपद्मासनस्थां तां भजामि सर्वमङ्गलाम् ॥ १३ ॥

ज्वालामालिनी –
अग्निज्वाला समाभाक्षीं नीलवक्त्रां चतुर्भुजां
नीलनीरदसङ्काशां नीलकेशीं तनूदरीम् ।
खड्गं त्रिशूलं बिभ्राणां वरांसाभयमेव च
सिंहपृष्ठसमारूढां ध्यायेज्ज्वालाद्यमालिनीम् ॥ १४ ॥

चित्रा –
शुद्धस्फटिकसङ्काशां पलाशकुसुमप्रभां
नीलमेघप्रतीकाशां चतुर्हस्तां त्रिलोचनाम् ।
सर्वालङ्कारसम्युक्तां पुष्पबाणेक्षुचापिनीं
पाशाङ्कुशसमोपेतां ध्यायेच्चित्रां महेश्वरीम् ॥ १५ ॥

ललिता –
आरक्ताभां त्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
हस्ताम्भोजैः सपाशाङ्कुशमदनधनुः सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥ १६ ॥


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Tithi Nitya Devi Dhyana Shloka – नित्या देव्यः ध्यान श्लोकाः

  1. Please Upload
    Veerbhadra Astottar Satnam Stotram. Astottar Namavali Is Available But Stotram Is Not Available.
    Please Upload

Leave a Reply

error: Not allowed