Sri Nateshwara Bhujanga Stuti – श्री नटेश्वर भुजङ्ग स्तुतिः


लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान्
दत्वाभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम् ।
उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं
बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः ॥ १ ॥

दिगीशादि वन्द्यं गिरीशानचापं
मुराराति बाणं पुरत्रासहासम् ।
करीन्द्रादि चर्माम्बरं वेदवेद्यं
महेशं सभेशं भजेऽहं नटेशम् ॥ २ ॥

समस्तैश्च भूतैः सदा नम्यमाद्यं
समस्तैकबन्धुं मनोदूरमेकम् ।
अपस्मारनिघ्नं परं निर्विकारं
महेशं सभेशं भजेऽहं नटेशम् ॥ ३ ॥

दयालुं वरेण्यं रमानाथवन्द्यं
महानन्दभूतं सदानन्दनृत्तम् ।
सभामध्यवासं चिदाकाशरूपं
महेशं सभेशं भजेऽहं नटेशम् ॥ ४ ॥

सभानाथमाद्यं निशानाथभूषं
शिवावामभागं पदाम्भोज लास्यम् ।
कृपापाङ्गवीक्षं ह्युमापाङ्गदृश्यं
महेशं सभेशं भजेऽहं नटेशम् ॥ ५ ॥

दिवानाथरात्रीशवैश्वानराक्षं
प्रजानाथपूज्यं सदानन्दनृत्तम् ।
चिदानन्दगात्रं परानन्दसौधं
महेशं सभेशं भजेऽहं नटेशम् ॥ ६ ॥

करेकाहलीकं पदेमौक्तिकालिं
गलेकालकूटं तलेसर्वमन्त्रम् ।
मुखे मन्दहासं भुजे नागराजं
महेशं सभेशं भजेऽहं नटेशम् ॥ ७ ॥

त्वदन्यं शरण्यं न पश्यामि शम्भो
मदन्यः प्रपन्नोस्ति किन्तेतिदीनः ।
मदर्थेह्युपेक्षा तवासीत्किमर्थं
महेशं सभेशं भजेऽहं नटेशम् ॥ ८ ॥

भवत्पादयुग्मं करेणावलम्बे
सदा नृत्तकारिन् सभामध्यदेशे ।
सदा भावये त्वां तदा दास्यसीष्टं
महेशं सभेशं भजेऽहं नटेशम् ॥ ९ ॥

भूयः स्वामिन् जनिर्मे मरणमपि तथा मास्तु भूयः सुराणां
साम्राज्यं तच्छ तावत्सुखलवरहितं दुःखदं नार्थये त्वाम् ।
सन्तापघ्नं पुरारे धुरि च तवसभा मन्दिरे सर्वदा त्व-
-न्नृत्तं पश्यन्वसेयं प्रमथगणवरैः साकमेतद्विधेहि ॥ १० ॥

इति श्री ज्ञानसम्बन्ध कृत श्री नटेश्वर भुजङ्ग स्तुतिः ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री नटराज स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed