Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कामशासनमाश्रितार्तिनिवारणैकधुरन्धरं
पाकशासनपूर्वलेखगणैः समर्चितपादुकम् ।
व्याघ्रपादफणीश्वरादिमुनीशसङ्घनिषेवितं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ १ ॥
यक्षराक्षसदानवोरगकिन्नरादिभिरन्वहं
भक्तिपूर्वकमत्युदारसुगीतवैभवशालिनम् ।
चण्डिकामुखपद्मवारिजबान्धवं विभुमव्ययं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ २ ॥
कालपाशनिपीडितं मुनिबालकं स्वपदार्चकं
ह्यग्रगण्यमशेषभक्तजनौघकस्य सदीडितम् ।
रक्षितुं सहसावतीर्य जघान यच्छमनं च तं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ३ ॥
भीकरोदकपूरकैर्भुवमर्णवीकरणोद्यतां
स्वर्धुनीमभिमानिनीमतिदुश्चरेण समाधिना ।
तोषितस्तु भगीरथेन दधार यो शिरसा च तं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ४ ॥
योगिनः सनकादयो मुनिपुङ्गवा विमलाशयाः
दक्षिणाभिमुखं गुरुं समुपास्य यं शिवमादरात् ।
सिद्धिमापुरनूपमां तमनन्यभावयुतस्त्वहं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ५ ॥
क्षीरसागरमन्थनोद्भवकालकूटमहाविषं
निग्रहीतुमशक्यमन्यसुरासुरैरपि योऽर्थितः ।
रक्षति स्म जगत्त्रयं सविलासमेव निपीय तं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ६ ॥
सर्वदेवमयं यमेव भजन्ति वैदिकसत्तमाः
ज्ञानकर्मविबोधकाः सकलागमाः श्रुतिपूर्वकाः ।
आहुरेव यमीशमादरतश्च तं सकलेश्वरं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ७ ॥
इति श्री नटराज हृदयभावना सप्तकम् ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.