Sri Shyamala Sahasranamavali – श्री श्यामला सहस्रनामावली


ओं सौभाग्यलक्ष्म्यै नमः ।
ओं सौन्दर्यनिधये नमः ।
ओं समरसप्रियायै नमः ।
ओं सर्वकल्याणनिलयायै नमः ।
ओं सर्वेश्यै नमः ।
ओं सर्वमङ्गलायै नमः ।
ओं सर्ववश्यकर्यै नमः ।
ओं सर्वायै नमः ।
ओं सर्वमङ्गलदायिन्यै नमः ।
ओं सर्वविद्यादानदक्षायै नमः ।
ओं सङ्गीतोपनिषत्प्रियायै नमः ।
ओं सर्वभूतहृदावासायै नमः ।
ओं सर्वगीर्वाणपूजितायै नमः ।
ओं समृद्धायै नमः ।
ओं सङ्गमुदितायै नमः ।
ओं सर्वलोकैकसंश्रयायै नमः ।
ओं सप्तकोटिमहामन्त्रस्वरूपायै नमः ।
ओं सर्वसाक्षिण्यै नमः ।
ओं सर्वाङ्गसुन्दर्यै नमः ।
ओं सर्वगतायै नमः । २०

ओं सत्यस्वरूपिण्यै नमः ।
ओं समायै नमः ।
ओं समयसंवेद्यायै नमः ।
ओं समयज्ञायै नमः ।
ओं सदाशिवायै नमः ।
ओं सङ्गीतरसिकायै नमः ।
ओं सर्वकलामयशुकप्रियायै नमः ।
ओं चन्दनालेपदिग्धाङ्ग्यै नमः ।
ओं सच्चिदानन्दरूपिण्यै नमः ।
ओं कदम्बवाटीनिलयायै नमः ।
ओं कमलाकान्तसेवितायै नमः ।
ओं कटाक्षोत्पन्नकन्दर्पायै नमः ।
ओं कटाक्षितमहेश्वरायै नमः ।
ओं कल्याण्यै नमः ।
ओं कमलासेव्यायै नमः ।
ओं कल्याणाचलवासिन्यै नमः ।
ओं कान्तायै नमः ।
ओं कन्दर्पजनन्यै नमः ।
ओं करुणारससागरायै नमः ।
ओं कलिदोषहरायै नमः । ४०

ओं काम्यायै नमः ।
ओं कामदायै नमः ।
ओं कामवर्धिन्यै नमः ।
ओं कदम्बकलिकोत्तंसायै नमः ।
ओं कदम्बकुसुमप्रियायै नमः ।
ओं कदम्बमूलरसिकायै नमः ।
ओं कामाक्ष्यै नमः ।
ओं कमलाननायै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं कलालापायै नमः ।
ओं कमलासनपूजितायै नमः ।
ओं कात्यायन्यै नमः ।
ओं केलिपरायै नमः ।
ओं कमलाक्षसहोदर्यै नमः ।
ओं कमलाक्ष्यै नमः ।
ओं कलारूपायै नमः ।
ओं कोकाकारकुचद्वयायै नमः ।
ओं कोकिलायै नमः ।
ओं कोकिलारावायै नमः ।
ओं कुमारजनन्यै नमः । ६०

ओं शिवायै नमः ।
ओं सर्वज्ञायै नमः ।
ओं सन्ततोन्मत्तायै नमः ।
ओं सर्वैश्वर्यप्रदायिन्यै नमः ।
ओं सुधाप्रियायै नमः ।
ओं सुराराध्यायै नमः ।
ओं सुकेश्यै नमः ।
ओं सुरसुन्दर्यै नमः ।
ओं शोभनायै नमः ।
ओं शुभदायै नमः ।
ओं शुद्धायै नमः ।
ओं शुद्धचित्तैकवासिन्यै नमः ।
ओं वेदवेद्यायै नमः ।
ओं वेदमय्यै नमः ।
ओं विद्याधरगणार्चितायै नमः ।
ओं वेदान्तसारायै नमः ।
ओं विश्वेश्यै नमः ।
ओं विश्वरूपायै नमः ।
ओं विरूपिण्यै नमः ।
ओं विरूपाक्षप्रियायै नमः । ८०

ओं विद्यायै नमः ।
ओं विन्ध्याचलनिवासिन्यै नमः ।
ओं वीणावादविनोदज्ञायै नमः ।
ओं वीणागानविशारदायै नमः ।
ओं वीणावत्यै नमः ।
ओं बिन्दुरूपायै नमः ।
ओं ब्रह्माण्यै नमः ।
ओं ब्रह्मरूपिण्यै नमः ।
ओं पार्वत्यै नमः ।
ओं परमायै नमः ।
ओं अचिन्त्यायै नमः ।
ओं परायै शक्त्यै नमः ।
ओं परात्परायै नमः ।
ओं परानन्दायै नमः ।
ओं परेशान्यै नमः ।
ओं परविद्यायै नमः ।
ओं परापरायै नमः ।
ओं भक्तप्रियायै नमः ।
ओं भक्तिगम्यायै नमः ।
ओं भक्तानां परमायै गत्यै नमः । १००

ओं भव्यायै नमः ।
ओं भवप्रियायै नमः ।
ओं भीरवे नमः ।
ओं भवसागरतारिण्यै नमः ।
ओं भयघ्न्यै नमः ।
ओं भावुकायै नमः ।
ओं भव्यायै नमः ।
ओं भामिन्यै नमः ।
ओं भक्तपालिन्यै नमः ।
ओं भेदशून्यायै नमः ।
ओं भेदहन्त्र्यै नमः ।
ओं भावनायै नमः ।
ओं मुनिभावितायै नमः ।
ओं मायायै नमः ।
ओं महेश्वर्यै नमः ।
ओं मान्यायै नमः ।
ओं मातङ्ग्यै नमः ।
ओं मलयालयायै नमः ।
ओं महनीयायै नमः ।
ओं मदोन्मत्तायै नमः । १२०

ओं मन्त्रिण्यै नमः ।
ओं मन्त्रनायिकायै नमः ।
ओं महानन्दायै नमः ।
ओं मनोगम्यायै नमः ।
ओं मतङ्गकुलमण्डनायै नमः ।
ओं मनोज्ञायै नमः ।
ओं मानिन्यै नमः ।
ओं माध्वीसिन्धुमध्यकृतालयायै नमः ।
ओं मधुप्रीतायै नमः ।
ओं नीलकचायै नमः ।
ओं माध्वीरसमदालसायै नमः ।
ओं पूर्णचन्द्राभवदनायै नमः ।
ओं पूर्णायै नमः ।
ओं पुण्यफलप्रदायै नमः ।
ओं पुलोमजार्चितायै नमः ।
ओं पूज्यायै नमः ।
ओं पुरुषार्थप्रदायिन्यै नमः ।
ओं नारायण्यै नमः ।
ओं नादरूपायै नमः ।
ओं नादब्रह्मस्वरूपिण्यै नमः । १४०

ओं नित्यायै नमः ।
ओं नवनवाकारायै नमः ।
ओं नित्यानन्दायै नमः ।
ओं निराकुलायै नमः ।
ओं निटिलाक्षप्रियायै नमः ।
ओं नेत्र्यै नमः ।
ओं नीलेन्दीवरलोचनायै नमः ।
ओं तमालकोमलाकारायै नमः ।
ओं तरुण्यै नमः ।
ओं तनुमध्यमायै नमः ।
ओं तटित्पिशङ्गवसनायै नमः ।
ओं तटित्कोटिसमद्युतये नमः ।
ओं मधुरायै नमः ।
ओं मङ्गलायै नमः ।
ओं मेध्यायै नमः ।
ओं मधुपानप्रिया सख्यै नमः ।
ओं चित्कलायै नमः ।
ओं चारुवदनायै नमः ।
ओं सुखरूपायै नमः ।
ओं सुखप्रदायै नमः । १६०

ओं कूटस्थायै नमः ।
ओं कौलिन्यै नमः ।
ओं कूर्मपीठस्थायै नमः ।
ओं कुटिलालकायै नमः ।
ओं शान्तायै नमः ।
ओं शान्तिमत्यै नमः ।
ओं शान्त्यै नमः ।
ओं श्यामलायै नमः ।
ओं श्यामलाकृत्यै नमः ।
ओं शङ्खिन्यै नमः ।
ओं शङ्कर्यै नमः ।
ओं शैव्यै नमः ।
ओं शङ्खकुण्डलमण्डितायै नमः ।
ओं कुन्ददन्तायै नमः ।
ओं कोमलाङ्ग्यै नमः ।
ओं कुमार्यै नमः ।
ओं कुलयोगिन्यै नमः ।
ओं निगर्भयोगिनीसेव्यायै नमः ।
ओं निरन्तररतिप्रियायै नमः ।
ओं शिवदूत्यै नमः । १८०

ओं शिवकर्यै नमः ।
ओं जटिलायै नमः ।
ओं जगदाश्रयायै नमः ।
ओं शाम्भव्यै नमः ।
ओं योगिनिलयायै नमः ।
ओं परचैतन्यरूपिण्यै नमः ।
ओं दहराकाशनिलयायै नमः ।
ओं दण्डिनीपरिपूजितायै नमः ।
ओं सम्पत्करीगजारूढायै नमः ।
ओं सान्द्रानन्दायै नमः ।
ओं सुरेश्वर्यै नमः ।
ओं चम्पकोद्भासितकचायै नमः ।
ओं चन्द्रशेखरवल्लभायै नमः ।
ओं चारुरूपायै नमः ।
ओं चारुदत्यै नमः ।
ओं चन्द्रिकायै नमः ।
ओं शम्भुमोहिन्यै नमः ।
ओं विमलायै नमः ।
ओं विदुष्यै नमः ।
ओं वाण्यै नमः । २००

ओं कमलायै नमः ।
ओं कमलासनायै नमः ।
ओं करुणापूर्णहृदयायै नमः ।
ओं कामेश्यै नमः ।
ओं कम्बुकन्धरायै नमः ।
ओं राजराजेश्वर्यै नमः ।
ओं राजमातङ्ग्यै नमः ।
ओं राजवल्लभायै नमः ।
ओं सचिवायै नमः ।
ओं सचिवेशान्यै नमः ।
ओं सचिवत्वप्रदायिन्यै नमः ।
ओं पञ्चबाणार्चितायै नमः ।
ओं बालायै नमः ।
ओं पञ्चम्यै नमः ।
ओं परदेवतायै नमः ।
ओं उमायै नमः ।
ओं महेश्वर्यै नमः ।
ओं गौर्यै नमः ।
ओं सङ्गीतज्ञायै नमः ।
ओं सरस्वत्यै नमः । २२०

ओं कविप्रियायै नमः ।
ओं काव्यकलायै नमः ।
ओं कलौ सिद्धिप्रदायिन्यै नमः ।
ओं ललितामन्त्रिण्यै नमः ।
ओं रम्यायै नमः ।
ओं ललिताराज्यपालिन्यै नमः ।
ओं ललितासेवनपरायै नमः ।
ओं ललिताज्ञावशंवदायै नमः ।
ओं ललिताकार्यचतुरायै नमः ।
ओं ललिताभक्तपालिन्यै नमः ।
ओं ललितार्धासनारूढायै नमः ।
ओं लावण्यरसशेवधये नमः ।
ओं रञ्जन्यै नमः ।
ओं लालितशुकायै नमः ।
ओं लसच्चूलीवरान्वितायै नमः ।
ओं रागिण्यै नमः ।
ओं रमण्यै नमः ।
ओं रामायै नमः ।
ओं रत्यै नमः ।
ओं रतिसुखप्रदायै नमः । २४०

ओं भोगदायै नमः ।
ओं भोग्यदायै नमः ।
ओं भूमिप्रदायै नमः ।
ओं भूषणशालिन्यै नमः ।
ओं पुण्यलभ्यायै नमः ।
ओं पुण्यकीर्त्यै नमः ।
ओं पुरन्दरपुरेश्वर्यै नमः ।
ओं भूमानन्दायै नमः ।
ओं भूतिकर्यै नमः ।
ओं क्लीङ्कार्यै नमः ।
ओं क्लिन्नरूपिण्यै नमः ।
ओं भानुमण्डलमध्यस्थायै नमः ।
ओं भामिन्यै नमः ।
ओं भारत्यै नमः ।
ओं धृत्यै नमः ।
ओं नारायणार्चितायै नमः ।
ओं नाथायै नमः ।
ओं नादिन्यै नमः ।
ओं नादरूपिण्यै नमः ।
ओं पञ्चकोणस्थितायै नमः । २६०

ओं लक्ष्म्यै नमः ।
ओं पुराण्यै नमः ।
ओं पुररूपिण्यै नमः ।
ओं चक्रस्थितायै नमः ।
ओं चक्ररूपायै नमः ।
ओं चक्रिण्यै नमः ।
ओं चक्रनायिकायै नमः ।
ओं षट्चक्रमण्डलान्तःस्थायै नमः ।
ओं ब्रह्मचक्रनिवासिन्यै नमः ।
ओं अन्तरभ्यर्चनप्रीतायै नमः ।
ओं बहिरर्चनलोलुपायै नमः ।
ओं पञ्चाशत्पीठमध्यस्थायै नमः ।
ओं मातृकावर्णरूपिण्यै नमः ।
ओं महादेव्यै नमः ।
ओं महाशक्त्यै नमः ।
ओं महामायायै नमः ।
ओं महामत्यै नमः ।
ओं महारूपायै नमः ।
ओं महादीप्त्यै नमः ।
ओं महालावण्यशालिन्यै नमः । २८०

ओं माहेन्द्र्यै नमः ।
ओं मदिरादृप्तायै नमः ।
ओं मदिरासिन्धुवासिन्यै नमः ।
ओं मदिरामोदवदनायै नमः ।
ओं मदिरापानमन्थरायै नमः ।
ओं दुरितघ्न्यै नमः ।
ओं दुःखहन्त्र्यै नमः ।
ओं दूत्यै नमः ।
ओं दूतरतिप्रियायै नमः ।
ओं वीरसेव्यायै नमः ।
ओं विघ्नहरायै नमः ।
ओं योगिन्यै नमः ।
ओं गणसेवितायै नमः ।
ओं निजवीणारवानन्द-निमीलितविलोचनायै नमः ।
ओं वज्रेश्वर्यै नमः ।
ओं वश्यकर्यै नमः ।
ओं सर्वचित्तविमोहिन्यै नमः ।
ओं शबर्यै नमः ।
ओं शम्बराराध्यायै नमः ।
ओं शाम्बर्यै नमः । ३००

ओं सामसंस्तुतायै नमः ।
ओं त्रिपुरामन्त्रजपिन्यै नमः ।
ओं त्रिपुरार्चनतत्परायै नमः ।
ओं त्रिलोकेश्यै नमः ।
ओं त्रयीमात्रे नमः ।
ओं त्रिमूर्त्यै नमः ।
ओं त्रिदिवेश्वर्यै नमः ।
ओं ऐङ्कार्यै नमः ।
ओं सर्वजनन्यै नमः ।
ओं सौःकार्यै नमः ।
ओं संविदीश्वर्यै नमः ।
ओं बोधायै नमः ।
ओं बोधकर्यै नमः ।
ओं बोध्यायै नमः ।
ओं बुधाराध्यायै नमः ।
ओं पुरातन्यै नमः ।
ओं भण्डसोदरसंहर्त्र्यै नमः ।
ओं भण्डसैन्यविनाशिन्यै नमः ।
ओं गेयचक्ररथारूढायै नमः ।
ओं गुरुमूर्त्यै नमः । ३२०

ओं कुलाङ्गनायै नमः ।
ओं गान्धर्वशास्त्रमर्मज्ञायै नमः ।
ओं गन्धर्वगणपूजितायै नमः ।
ओं जगन्मात्रे नमः ।
ओं जयकर्यै नमः ।
ओं जनन्यै नमः ।
ओं जनदेवतायै नमः ।
ओं शिवाराध्यायै नमः ।
ओं शिवार्धाङ्ग्यै नमः ।
ओं शिञ्जन्मञ्जीरमण्डितायै नमः ।
ओं सर्वात्मिकायै नमः ।
ओं हृषीकेश्यै नमः ।
ओं सर्वपापविनाशिन्यै नमः ।
ओं सर्वरोगहरायै नमः ।
ओं साध्यायै नमः ।
ओं धर्मिण्यै नमः ।
ओं धर्मरूपिण्यै नमः ।
ओं आचारलभ्यायै नमः ।
ओं स्वाचारायै नमः ।
ओं खेचर्यै नमः । ३४०

ओं योनिरूपिण्यै नमः ।
ओं पतिव्रतायै नमः ।
ओं पाशहन्त्र्यै नमः ।
ओं परमार्थस्वरूपिण्यै नमः ।
ओं पण्डिता परिवाराढ्यायै नमः ।
ओं पाषण्डमतभञ्जन्यै नमः ।
ओं श्रीकर्यै नमः ।
ओं श्रीमत्यै नमः ।
ओं देव्यै नमः ।
ओं बिन्दुनादस्वरूपिण्यै नमः ।
ओं अपर्णायै नमः ।
ओं हिमवत्पुत्र्यै नमः ।
ओं दुर्गायै नमः ।
ओं दुर्गतिहारिण्यै नमः ।
ओं व्यालोलशङ्खताटङ्कायै नमः ।
ओं विलसद्गण्डपालिकायै नमः ।
ओं सुधामधुरसालापायै नमः ।
ओं सिन्दूरतिलकोज्ज्वलायै नमः ।
ओं अलक्तकारक्तपादायै नमः ।
ओं नन्दनोद्यानवासिन्यै नमः । ३६०

ओं वासन्तकुसुमापीडायै नमः ।
ओं वसन्तसमयप्रियायै नमः ।
ओं ध्याननिष्ठायै नमः ।
ओं ध्यानगम्यायै नमः ।
ओं ध्येयायै नमः ।
ओं ध्यानस्वरूपिण्यै नमः ।
ओं दारिद्र्यहन्त्र्यै नमः ।
ओं दौर्भाग्यशमन्यै नमः ।
ओं दानवान्तकायै नमः ।
ओं तीर्थरूपायै नमः ।
ओं त्रिनयनायै नमः ।
ओं तुरीयायै नमः ।
ओं दोषवर्जितायै नमः ।
ओं मेधाप्रदायिन्यै नमः ।
ओं मेध्यायै नमः ।
ओं मेदिन्यै नमः ।
ओं मदशालिन्यै नमः ।
ओं मधुकैटभसंहर्त्र्यै नमः ।
ओं माधव्यै नमः ।
ओं माधवप्रियायै नमः । ३८०

ओं महिलायै नमः ।
ओं महिमासारायै नमः ।
ओं शर्वाण्यै नमः ।
ओं शर्मदायिन्यै नमः ।
ओं रुद्राण्यै नमः ।
ओं रुचिरायै नमः ।
ओं रौद्र्यै नमः ।
ओं रुक्मभूषणभूषितायै नमः ।
ओं अम्बिकायै नमः ।
ओं जगतां धात्र्यै नमः ।
ओं जटिन्यै नमः ।
ओं धूर्जटिप्रियायै नमः ।
ओं सूक्ष्मस्वरूपिण्यै नमः ।
ओं सौम्यायै नमः ।
ओं सुरुचये नमः ।
ओं सुलभायै नमः ।
ओं शुभायै नमः ।
ओं विपञ्चीकलनिक्वाण-विमोहितजगत्त्रयायै नमः ।
ओं भैरवप्रेमनिलयायै नमः ।
ओं भैरव्यै नमः । ४००

ओं भासुराकृत्यै नमः ।
ओं पुष्पिण्यै नमः ।
ओं पुण्यनिलयायै नमः ।
ओं पुण्यश्रवणकीर्तनायै नमः ।
ओं कुरुकुल्लायै नमः ।
ओं कुण्डलिन्यै नमः ।
ओं वागीश्यै नमः ।
ओं नकुलेश्वर्यै नमः ।
ओं वामकेश्यै नमः ।
ओं गिरिसुतायै नमः ।
ओं वार्तालीपरिपूजितायै नमः ।
ओं वारुणीमदरक्ताक्ष्यै नमः ।
ओं वन्दारुवरदायिन्यै नमः ।
ओं कटाक्षस्यन्दिकरुणायै नमः ।
ओं कन्दर्पमदवर्धिन्यै नमः ।
ओं दूर्वाश्यामायै नमः ।
ओं दुष्टहन्त्र्यै नमः ।
ओं दुष्टग्रहविभेदिन्यै नमः ।
ओं सर्वशत्रुक्षयकर्यै नमः ।
ओं सर्वसम्पत्प्रवर्धिन्यै नमः । ४२०

ओं कबरीशोभिकल्हारायै नमः ।
ओं कलशिञ्जितमेखलायै नमः ।
ओं मृणालीतुल्यदोर्वल्ल्यै नमः ।
ओं मृडान्यै नमः ।
ओं मृत्युवर्जितायै नमः ।
ओं मृदुलायै नमः ।
ओं मृत्युसंहर्त्र्यै नमः ।
ओं मञ्जुलायै नमः ।
ओं मञ्जुभाषिण्यै नमः ।
ओं कर्पूरवीटीकबलायै नमः ।
ओं कमनीयकपोलभुवे नमः ।
ओं कर्पूरक्षोददिग्धाङ्ग्यै नमः ।
ओं कर्त्र्यै नमः ।
ओं कारणवर्जितायै नमः ।
ओं अनादिनिधनायै नमः ।
ओं धात्र्यै नमः ।
ओं धात्रीधरकुलोद्भवायै नमः ।
ओं स्तोत्रप्रियायै नमः ।
ओं स्तुतिमय्यै नमः ।
ओं मोहिन्यै नमः । ४४०

ओं मोहहारिण्यै नमः ।
ओं जीवरूपायै नमः ।
ओं जीवकार्यै नमः ।
ओं जीवन्मुक्तिप्रदायिन्यै नमः ।
ओं भद्रपीठस्थितायै नमः ।
ओं भद्रायै नमः ।
ओं भद्रदायै नमः ।
ओं भर्गभामिन्यै नमः ।
ओं भगानन्दायै नमः ।
ओं भगमय्यै नमः ।
ओं भगलिङ्गायै नमः ।
ओं भगेश्वर्यै नमः ।
ओं मत्तमातङ्गगमनायै नमः ।
ओं मातङ्गकुलमञ्जर्यै नमः ।
ओं राजहंसगत्यै नमः ।
ओं राज्ञ्यै नमः ।
ओं राजराजसमर्चितायै नमः ।
ओं भवान्यै नमः ।
ओं पावन्यै नमः ।
ओं काल्यै नमः । ४६०

ओं दक्षिणायै नमः ।
ओं दक्षकन्यकायै नमः ।
ओं हव्यवाहायै नमः ।
ओं हविर्भोक्त्र्यै नमः ।
ओं हारिण्यै नमः ।
ओं दुःखहारिण्यै नमः ।
ओं संसारतारिण्यै नमः ।
ओं सौम्यायै नमः ।
ओं सर्वेश्यै नमः ।
ओं समरप्रियायै नमः ।
ओं स्वप्नवत्यै नमः ।
ओं जागरिण्यै नमः ।
ओं सुषुप्तायै नमः ।
ओं विश्वरूपिण्यै नमः ।
ओं तैजस्यै नमः ।
ओं प्राज्ञकलनायै नमः ।
ओं चेतनायै नमः ।
ओं चेतनावत्यै नमः ।
ओं चिन्मात्रायै नमः ।
ओं चिद्घनायै नमः । ४८०

ओं चेत्यायै नमः ।
ओं चिच्छायायै नमः ।
ओं चित्स्वरूपिण्यै नमः ।
ओं निवृत्तिरूपिण्यै नमः ।
ओं शान्त्यै नमः ।
ओं प्रतिष्ठायै नमः ।
ओं नित्यरूपिण्यै नमः ।
ओं विद्यारूपायै नमः ।
ओं शान्त्यतीतायै नमः ।
ओं कलापञ्चकरूपिण्यै नमः ।
ओं ह्रीङ्कार्यै नमः ।
ओं ह्रीमत्यै नमः ।
ओं हृद्यायै नमः ।
ओं ह्रीच्छायायै नमः ।
ओं हरिवाहनायै नमः ।
ओं मूलप्रकृत्यै नमः ।
ओं अव्यक्तायै नमः ।
ओं व्यक्ताव्यक्तविनोदिन्यै नमः ।
ओं यज्ञरूपायै नमः ।
ओं यज्ञभोक्त्र्यै नमः । ५००

ओं यज्ञाङ्ग्यै नमः ।
ओं यज्ञरूपिण्यै नमः ।
ओं दीक्षितायै नमः ।
ओं क्षमणायै नमः ।
ओं क्षामायै नमः ।
ओं क्षित्यै नमः ।
ओं क्षान्त्यै नमः ।
ओं श्रुत्यै नमः ।
ओं स्मृत्यै नमः ।
ओं एकस्यै नमः ।
ओं अनेकस्यै नमः ।
ओं कामकलायै नमः ।
ओं कल्यायै नमः ।
ओं कालस्वरूपिण्यै नमः ।
ओं दक्षायै नमः ।
ओं दाक्षायण्यै नमः ।
ओं दीक्षायै नमः ।
ओं दक्षयज्ञविनाशिन्यै नमः ।
ओं गायत्र्यै नमः ।
ओं गगनाकारायै नमः । ५२०

ओं गीर्देव्यै नमः ।
ओं गरुडासनायै नमः ।
ओं सावित्र्यै नमः ।
ओं सकलाध्यक्षायै नमः ।
ओं ब्रह्माण्यै नमः ।
ओं ब्राह्मणप्रियायै नमः ।
ओं जगन्नाथायै नमः ।
ओं जगन्मूर्त्यै नमः ।
ओं जगन्मृत्युनिवारिण्यै नमः ।
ओं दृग्रूपायै नमः ।
ओं दृश्यनिलयायै नमः ।
ओं द्रष्ट्र्यै नमः ।
ओं मन्त्र्यै नमः ।
ओं चिरन्तन्यै नमः ।
ओं विज्ञात्र्यै नमः ।
ओं विपुलायै नमः ।
ओं वेद्यायै नमः ।
ओं वृद्धायै नमः ।
ओं वर्षीयस्यै नमः ।
ओं मह्यै नमः । ५४०

ओं आर्यायै नमः ।
ओं कुहरिण्यै नमः ।
ओं गुह्यायै नमः ।
ओं गौर्यै नमः ।
ओं गौतमपूजितायै नमः ।
ओं नन्दिन्यै नमः ।
ओं नलिन्यै नमः ।
ओं नित्यायै नमः ।
ओं नीत्यै नमः ।
ओं नयविशारदायै नमः ।
ओं गतागतज्ञायै नमः ।
ओं गन्धर्व्यै नमः ।
ओं गिरिजायै नमः ।
ओं गर्वनाशिन्यै नमः ।
ओं प्रियव्रतायै नमः ।
ओं प्रमायै नमः ।
ओं प्राणायै नमः ।
ओं प्रमाणज्ञायै नमः ।
ओं प्रियंवदायै नमः ।
ओं अशरीरायै नमः । ५६०

ओं शरीरस्थायै नमः ।
ओं नामरूपविवर्जितायै नमः ।
ओं वर्णाश्रमविभागज्ञायै नमः ।
ओं वर्णाश्रमविवर्जितायै नमः ।
ओं नित्यमुक्तायै नमः ।
ओं नित्यतृप्तायै नमः ।
ओं निर्लेपायै नमः ।
ओं निरवग्रहायै नमः ।
ओं इच्छाज्ञानक्रियाशक्त्यै नमः ।
ओं इन्दिरायै नमः ।
ओं बन्धुराकृत्यै नमः ।
ओं मनोरथप्रदायै नमः ।
ओं मुख्यायै नमः ।
ओं मानिन्यै नमः ।
ओं मानवर्जितायै नमः ।
ओं नीरागायै नमः ।
ओं निरहङ्कारायै नमः ।
ओं निर्नाशायै नमः ।
ओं निरुपप्लवायै नमः ।
ओं विचित्रायै नमः । ५८०

ओं चित्रचारित्रायै नमः ।
ओं निष्कलायै नमः ।
ओं निगमालयायै नमः ।
ओं ब्रह्मविद्यायै नमः ।
ओं ब्रह्मनाड्यै नमः ।
ओं बन्धहन्त्र्यै नमः ।
ओं बलिप्रियायै नमः ।
ओं सुलक्षणायै नमः ।
ओं लक्षणज्ञायै नमः ।
ओं सुन्दरभ्रूलताञ्चितायै नमः ।
ओं सुमित्रायै नमः ।
ओं मालिन्यै नमः ।
ओं सीमायै नमः ।
ओं मुद्रिण्यै नमः ।
ओं मुद्रिकाञ्चितायै नमः ।
ओं रजस्वलायै नमः ।
ओं रम्यमूर्त्यै नमः ।
ओं जयायै नमः ।
ओं जन्मविवर्जितायै नमः ।
ओं पद्मालयायै नमः । ६००

ओं पद्मपीठायै नमः ।
ओं पद्मिन्यै नमः ।
ओं पद्मवर्णिन्यै नमः ।
ओं विश्वम्भरायै नमः ।
ओं विश्वगर्भायै नमः ।
ओं विश्वेश्यै नमः ।
ओं विश्वतोमुख्यै नमः ।
ओं अद्वितीयायै नमः ।
ओं सहस्राक्ष्यै नमः ।
ओं विराड्रूपायै नमः ।
ओं विमोचिन्यै नमः ।
ओं सूत्ररूपायै नमः ।
ओं शास्त्रकर्यै नमः ।
ओं शास्त्रज्ञायै नमः ।
ओं शस्त्रधारिण्यै नमः ।
ओं वेदविदे नमः ।
ओं वेदकृते नमः ।
ओं वेद्यायै नमः ।
ओं वित्तज्ञायै नमः ।
ओं वित्तशालिन्यै नमः । ६२०

ओं विशदायै नमः ।
ओं वैष्णव्यै नमः ।
ओं ब्राह्म्यै नमः ।
ओं वैरिञ्च्यै नमः ।
ओं वाक्प्रदायिन्यै नमः ।
ओं व्याख्यात्र्यै नमः ।
ओं वामनायै नमः ।
ओं वृद्ध्यै नमः ।
ओं विश्वनाथायै नमः ।
ओं विशारदायै नमः ।
ओं मुद्रेश्वर्यै नमः ।
ओं मुण्डमालायै नमः ।
ओं काल्यै नमः ।
ओं कङ्कालरूपिण्यै नमः ।
ओं महेश्वरप्रीतिकर्यै नमः ।
ओं महेश्वरपतिव्रतायै नमः ।
ओं ब्रह्माण्डमालिन्यै नमः ।
ओं बुध्न्यायै नमः ।
ओं मतङ्गमुनिपूजितायै नमः ।
ओं ईश्वर्यै नमः । ६४०

ओं चण्डिकायै नमः ।
ओं चण्ड्यै नमः ।
ओं नियन्त्र्यै नमः ।
ओं नियमस्थितायै नमः ।
ओं सर्वान्तर्यामिण्यै नमः ।
ओं सेव्यायै नमः ।
ओं सन्तत्यै नमः ।
ओं सन्ततिप्रदायै नमः ।
ओं तमालपल्लवश्यामायै नमः ।
ओं ताम्रोष्ठ्यै नमः ।
ओं ताण्डवप्रियायै नमः ।
ओं नाट्यलास्यकर्यै नमः ।
ओं रम्भायै नमः ।
ओं नटराजप्रियाङ्गनायै नमः ।
ओं अनङ्गरूपायै नमः ।
ओं अनङ्गश्रियै नमः ।
ओं अनङ्गेश्यै नमः ।
ओं वसुन्धरायै नमः ।
ओं साम्राज्यदायिन्यै नमः ।
ओं सिद्धायै नमः । ६६०

ओं सिद्धेश्यै नमः ।
ओं सिद्धिदायिन्यै नमः ।
ओं सिद्धमात्रे नमः ।
ओं सिद्धपूज्यायै नमः ।
ओं सिद्धार्थायै नमः ।
ओं वसुदायिन्यै नमः ।
ओं भक्तिमत्कल्पलतिकायै नमः ।
ओं भक्तिदायै नमः ।
ओं भक्तवत्सलायै नमः ।
ओं पञ्चशक्त्यर्चितपदायै नमः ।
ओं परमात्मस्वरूपिण्यै नमः ।
ओं अज्ञानतिमिरज्योत्स्नायै नमः ।
ओं नित्याह्लादायै नमः ।
ओं निरञ्जनायै नमः ।
ओं मुग्धायै नमः ।
ओं मुग्धस्मितायै नमः ।
ओं मैत्र्यै नमः ।
ओं मुग्धकेश्यै नमः ।
ओं मधुप्रियायै नमः ।
ओं कलापिन्यै नमः । ६८०

ओं कामकलायै नमः ।
ओं कामकेल्यै नमः ।
ओं कलावत्यै नमः ।
ओं अखण्डायै नमः ।
ओं निरहङ्कारायै नमः ।
ओं प्रधानपुरुषेश्वर्यै नमः ।
ओं रहःपूज्यायै नमः ।
ओं रहःकेल्यै नमः ।
ओं रहःस्तुत्यायै नमः ।
ओं हरप्रियायै नमः ।
ओं शरण्यायै नमः ।
ओं गहनायै नमः ।
ओं गुह्यायै नमः ।
ओं गुहान्तःस्थायै नमः ।
ओं गुहप्रसवे नमः ।
ओं स्वसंवेद्यायै नमः ।
ओं स्वप्रकाशायै नमः ।
ओं स्वात्मस्थायै नमः ।
ओं स्वर्गदायिन्यै नमः ।
ओं निष्प्रपञ्चायै नमः । ७००

ओं निराधारायै नमः ।
ओं नित्यानित्यस्वरूपिण्यै नमः ।
ओं निर्मदायै नमः ।
ओं नर्तक्यै नमः ।
ओं कीर्त्यै नमः ।
ओं निष्कामायै नमः ।
ओं निष्कलायै नमः ।
ओं कलायै नमः ।
ओं अष्टमूर्त्यै नमः ।
ओं अमोघायै नमः ।
ओं उमायै नमः ।
ओं नन्द्यादिगणपूजितायै नमः ।
ओं यन्त्ररूपायै नमः ।
ओं तन्त्ररूपायै नमः ।
ओं मन्त्ररूपायै नमः ।
ओं मनोन्मन्यै नमः ।
ओं शिवकामेश्वर्यै नमः ।
ओं देव्यै नमः ।
ओं चिद्रूपायै नमः ।
ओं चित्तरङ्गिण्यै नमः । ७२०

ओं चित्स्वरूपायै नमः ।
ओं चित्प्रकाशायै नमः ।
ओं चिन्मूर्त्यै नमः ।
ओं चिन्मय्यै नमः ।
ओं चित्यै नमः ।
ओं मूर्खदूरायै नमः ।
ओं मोहहन्त्र्यै नमः ।
ओं मुख्यायै नमः ।
ओं क्रोडमुखीसख्यै नमः ।
ओं ज्ञानज्ञातृज्ञेयरूपायै नमः ।
ओं व्योमाकारायै नमः ।
ओं विलासिन्यै नमः ।
ओं विमर्शरूपिण्यै नमः ।
ओं वश्यायै नमः ।
ओं विधानज्ञायै नमः ।
ओं विजृम्भितायै नमः ।
ओं केतकीकुसुमापीडायै नमः ।
ओं कस्तूरीतिलकोज्ज्वलायै नमः ।
ओं मृग्यायै नमः ।
ओं मृगाक्ष्यै नमः । ७४०

ओं रसिकायै नमः ।
ओं मृगनाभिसुगन्धिन्यै नमः ।
ओं यक्षकर्दमलिप्ताङ्ग्यै नमः ।
ओं यक्षिण्यै नमः ।
ओं यक्षपूजितायै नमः ।
ओं लसन्माणिक्यकटकायै नमः ।
ओं केयूरोज्ज्वलदोर्लतायै नमः ।
ओं सिन्दूरराजत्सीमन्तायै नमः ।
ओं सुभ्रूवल्ल्यै नमः ।
ओं सुनासिकायै नमः ।
ओं कैवल्यदायै नमः ।
ओं कान्तिमत्यै नमः ।
ओं कठोरकुचमण्डलायै नमः ।
ओं तलोदर्यै नमः ।
ओं तमोहन्त्र्यै नमः ।
ओं त्रयस्त्रिंशत्सुरात्मिकायै नमः ।
ओं स्वयम्भुवे नमः ।
ओं कुसुमामोदायै नमः ।
ओं स्वयम्भुकुसुमप्रियायै नमः ।
ओं स्वाध्यायिन्यै नमः । ७६०

ओं सुखाराध्यायै नमः ।
ओं वीरश्रियै नमः ।
ओं वीरपूजितायै नमः ।
ओं द्राविण्यै नमः ।
ओं विद्रुमाभोष्ठ्यै नमः ।
ओं वेगिन्यै नमः ।
ओं विष्णुवल्लभायै नमः ।
ओं हालामदालसद्वाण्यै नमः ।
ओं लोलायै नमः ।
ओं लीलावत्यै नमः ।
ओं रत्यै नमः ।
ओं लोपामुद्रार्चितायै नमः ।
ओं लक्ष्म्यै नमः ।
ओं अहल्यापरिपूजितायै नमः ।
ओं आब्रह्मकीटजनन्यै नमः ।
ओं कैलासगिरिवासिन्यै नमः ।
ओं निधीश्वर्यै नमः ।
ओं निरातङ्कायै नमः ।
ओं निष्कलङ्कायै नमः ।
ओं जगन्मय्यै नमः । ७८०

ओं आदिलक्ष्म्यै नमः ।
ओं अनन्तश्रियै नमः ।
ओं अच्युतायै नमः ।
ओं तत्त्वरूपिण्यै नमः ।
ओं नामजात्यादिरहितायै नमः ।
ओं नरनारायणार्चितायै नमः ।
ओं गुह्योपनिषदुद्गीतायै नमः ।
ओं लक्ष्मीवाणीनिषेवितायै नमः ।
ओं मतङ्गवरदायै नमः ।
ओं सिद्धायै नमः ।
ओं महायोगीश्वर्यै नमः ।
ओं गुरवे नमः ।
ओं गुरुप्रियायै नमः ।
ओं कुलाराध्यायै नमः ।
ओं कुलसङ्केतपालिन्यै नमः ।
ओं चिच्चन्द्रमण्डलान्तःस्थायै नमः ।
ओं चिदाकाशस्वरूपिण्यै नमः ।
ओं अनङ्गशास्त्रतत्त्वज्ञायै नमः ।
ओं नानाविधरसप्रियायै नमः ।
ओं निर्मलायै नमः । ८००

ओं निरवद्याङ्ग्यै नमः ।
ओं नीतिज्ञायै नमः ।
ओं नीतिरूपिण्यै नमः ।
ओं व्यापिन्यै नमः ।
ओं विबुधश्रेष्ठायै नमः ।
ओं कुलशैलकुमारिकायै नमः ।
ओं विष्णुप्रसवे नमः ।
ओं वीरमात्रे नमः ।
ओं नासामणिविराजितायै नमः ।
ओं नायिकानगरीसंस्थायै नमः ।
ओं नित्यतुष्टायै नमः ।
ओं नितम्बिन्यै नमः ।
ओं पञ्चब्रह्ममय्यै नमः ।
ओं प्राञ्च्यै नमः ।
ओं ब्रह्मात्मैक्यस्वरूपिण्यै नमः ।
ओं सर्वोपनिषदुद्गीतायै नमः ।
ओं सर्वानुग्रहकारिण्यै नमः ।
ओं पवित्रायै नमः ।
ओं पावनायै नमः ।
ओं पूतायै नमः । ८२०

ओं परमात्मस्वरूपिण्यै नमः ।
ओं सूर्येन्दुवह्निनयनायै नमः ।
ओं सूर्यमण्डलमध्यगायै नमः ।
ओं गायत्र्यै नमः ।
ओं गात्ररहितायै नमः ।
ओं सुगुणायै नमः ।
ओं गुणवर्जितायै नमः ।
ओं रक्षाकर्यै नमः ।
ओं रम्यरुपायै नमः ।
ओं सात्त्विकायै नमः ।
ओं सत्त्वदायिन्यै नमः ।
ओं विश्वातीतायै नमः ।
ओं व्योमरूपायै नमः ।
ओं सदार्चनजपप्रियायै नमः ।
ओं आत्मभुवे नमः ।
ओं अजितायै नमः ।
ओं जिष्णवे नमः ।
ओं अजायै नमः ।
ओं स्वाहायै नमः ।
ओं स्वधायै नमः । ८४०

ओं सुधायै नमः ।
ओं नन्दिताशेषभुवनायै नमः ।
ओं नामसङ्कीर्तनप्रियायै नमः ।
ओं गुरुमूर्त्यै नमः ।
ओं गुरुमय्यै नमः ।
ओं गुरुपादार्चनप्रियायै नमः ।
ओं गोब्राह्मणात्मिकायै नमः ।
ओं गुर्व्यै नमः ।
ओं नीलकण्ठ्यै नमः ।
ओं निरामयायै नमः ।
ओं मानव्यै नमः ।
ओं मन्त्रजनन्यै नमः ।
ओं महाभैरवपूजितायै नमः ।
ओं नित्योत्सवायै नमः ।
ओं नित्यपुष्टायै नमः ।
ओं श्यामायै नमः ।
ओं यौवनशालिन्यै नमः ।
ओं महनीयायै नमः ।
ओं महामूर्त्यै नमः ।
ओं महत्यै सौख्यसन्तत्यै नमः । ८६०

ओं पूर्णोदर्यै नमः ।
ओं हविर्धात्र्यै नमः ।
ओं गणाराध्यायै नमः ।
ओं गणेश्वर्यै नमः ।
ओं गायनायै नमः ।
ओं गर्वरहितायै नमः ।
ओं स्वेदबिन्दूल्लसन्मुख्यै नमः ।
ओं तुङ्गस्तन्यै नमः ।
ओं तुलाशून्यायै नमः ।
ओं कन्यायै नमः ।
ओं कमलवासिन्यै नमः ।
ओं शृङ्गारिण्यै नमः ।
ओं श्रियै नमः ।
ओं श्रीविद्यायै नमः ।
ओं श्रीप्रदायै नमः ।
ओं श्रीनिवासिन्यै नमः ।
ओं त्रैलोक्यसुन्दर्यै नमः ।
ओं बालायै नमः ।
ओं त्रैलोक्यजनन्यै नमः ।
ओं सुधिये नमः । ८८०

ओं पञ्चक्लेशहरायै नमः ।
ओं पाशधारिण्यै नमः ।
ओं पशुमोचन्यै नमः ।
ओं पाषण्डहन्त्र्यै नमः ।
ओं पापघ्न्यै नमः ।
ओं पार्थिवश्रीकर्यै नमः ।
ओं धृत्यै नमः ।
ओं निरपायायै नमः ।
ओं दुरापायै नमः ।
ओं यस्यै नमः ।
ओं सुलभायै नमः ।
ओं शोभनाकृत्यै नमः ।
ओं महाबलायै नमः ।
ओं भगवत्यै नमः ।
ओं भवरोगनिवारिण्यै नमः ।
ओं भैरवाष्टकसंसेव्यायै नमः ।
ओं ब्राह्म्यादिपरिवारितायै नमः ।
ओं वामादिशक्तिसहितायै नमः ।
ओं वारुणीमदविह्वलायै नमः ।
ओं वरिष्ठायै नमः । ९००

ओं वश्यदायै नमः ।
ओं वश्यायै नमः ।
ओं भक्तार्तिदमनायै नमः ।
ओं शिवायै नमः ।
ओं वैराग्यजनन्यै नमः ।
ओं ज्ञानदायिन्यै नमः ।
ओं ज्ञानविग्रहायै नमः ।
ओं सर्वदोषविनिर्मुक्तायै नमः ।
ओं शङ्करार्धशरीरिण्यै नमः ।
ओं सर्वेश्वरप्रियतमायै नमः ।
ओं स्वयञ्ज्योतिः स्वरूपिण्यै नमः ।
ओं क्षीरसागरमध्यस्थायै नमः ।
ओं महाभुजगशायिन्यै नमः ।
ओं कामधेन्वै नमः ।
ओं बृहद्गर्भायै नमः ।
ओं योगनिद्रायै नमः ।
ओं युगन्धरायै नमः ।
ओं महेन्द्रोपेन्द्रजनन्यै नमः ।
ओं मातङ्गकुलसम्भवायै नमः ।
ओं मतङ्गजातिसम्पूज्यायै नमः । ९२०

ओं मतङ्गकुलदेवतायै नमः ।
ओं गुह्यविद्यायै नमः ।
ओं वश्यविद्यायै नमः ।
ओं सिद्धविद्यायै नमः ।
ओं शिवाङ्गनायै नमः ।
ओं सुमङ्गलायै नमः ।
ओं रत्नगर्भायै नमः ।
ओं सूर्यमात्रे नमः ।
ओं सुधाशनायै नमः ।
ओं खड्गमण्डलसम्पूज्यायै नमः ।
ओं सालग्रामनिवासिन्यै नमः ।
ओं दुर्जयायै नमः ।
ओं दुष्टदमनायै नमः ।
ओं दुर्निरीक्ष्यायै नमः ।
ओं दुरत्ययायै नमः ।
ओं शङ्खचक्रगदाहस्तायै नमः ।
ओं विष्णुशक्त्यै नमः ।
ओं विमोहिन्यै नमः ।
ओं योगमात्रे नमः ।
ओं योगगम्यायै नमः । ९४०

ओं योगनिष्ठायै नमः ।
ओं सुधास्रवायै नमः ।
ओं समाधिनिष्ठैः संवेद्यायै नमः ।
ओं सर्वभेदविवर्जितायै नमः ।
ओं साधारणायै नमः ।
ओं सरोजाक्ष्यै नमः ।
ओं सर्वज्ञायै नमः ।
ओं सर्वसाक्षिण्यै नमः ।
ओं महाशक्त्यै नमः ।
ओं महोदारायै नमः ।
ओं महामङ्गलदेवतायै नमः ।
ओं कलौ कृतावतरणायै नमः ।
ओं कलिकल्मषनाशिन्यै नमः ।
ओं सर्वदायै नमः ।
ओं सर्वजनन्यै नमः ।
ओं निरीशायै नमः ।
ओं सर्वतोमुख्यै नमः ।
ओं सुगूढायै नमः ।
ओं सर्वतोभद्रायै नमः ।
ओं सुस्थितायै नमः । ९६०

ओं स्थाणुवल्लभायै नमः ।
ओं चराचरजगद्रूपायै नमः ।
ओं चेतनाचेतनाकृत्यै नमः ।
ओं महेश्वरप्राणनाड्यै नमः ।
ओं महाभैरवमोहिन्यै नमः ।
ओं मञ्जुलायै नमः ।
ओं यौवनोन्मत्तायै नमः ।
ओं महापातकनाशिन्यै नमः ।
ओं महानुभावायै नमः ।
ओं माहेन्द्र्यै नमः ।
ओं महामरकतप्रभायै नमः ।
ओं सर्वशक्त्यासनायै नमः ।
ओं शक्त्यै नमः ।
ओं निराभासायै नमः ।
ओं निरिन्द्रियायै नमः ।
ओं समस्तदेवतामूर्त्यै नमः ।
ओं समस्तसमयार्चितायै नमः ।
ओं सुवर्चलायै नमः ।
ओं वियन्मूर्त्यै नमः ।
ओं पुष्कलायै नमः । ९८०

ओं नित्यपुष्पिण्यै नमः ।
ओं नीलोत्पलदलश्यामायै नमः ।
ओं महाप्रलयसाक्षिण्यै नमः ।
ओं सङ्कल्पसिद्धायै नमः ।
ओं सङ्गीतरसिकायै नमः ।
ओं रसदायिन्यै नमः ।
ओं अभिन्नायै नमः ।
ओं ब्रह्मजनन्यै नमः ।
ओं कालक्रमविवर्जितायै नमः ।
ओं अजपायै नमः ।
ओं जाड्यरहितायै नमः ।
ओं प्रसन्नायै नमः ।
ओं भगवत्प्रियायै नमः ।
ओं इन्दिरायै नमः ।
ओं जगतीकन्दायै नमः ।
ओं सच्चिदानन्दकन्दल्यै नमः ।
ओं श्रीचक्रनिलयायै नमः ।
ओं देव्यै नमः ।
ओं श्रीविद्यायै नमः ।
ओं श्रीप्रदायिनी नमः । १०००


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed