Sri Narasimha Stotram 6 (Naaraka Krutam) – श्री नृसिंह स्तोत्रम् – ६ (नारका कृतम्)


नारका ऊचुः ।
ओं नमो भगवते तस्मै केशवाय महात्मने ।
यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥ १ ॥

भक्तप्रियाय देवाय परस्मै हरये नमः । [रक्षाय]
लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ २ ॥

अनन्तायाप्रमेयाय नरसिंहाय ते नमः ।
नारायणाय गुरवे शङ्खचक्रगदाभृते ॥ ३ ॥

वेदप्रियाय महते विक्रमाय नमो नमः ।
वराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ॥ ४ ॥

नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः ।
वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ॥ ५ ॥

बलिबन्धनदक्षाय वेदपालाय ते नमः ।
विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ ६ ॥

चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः ।
जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥ ७ ॥

रामाय रावणान्ताय नमस्तुभ्यं महात्मने ।
अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥ ८ ॥

इति श्रीनृसिंहपुराणे अष्टमोऽध्याये नारकाकृत श्री नृसिंह स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed