Sri Narasimha Stotram 5 (Vasudevananda Saraswati Krutam) – श्री नृसिंह स्तोत्रम् – ५ (श्रीवासुदेवानन्द सरस्वति कृतम्)


जय जय भयहारिन् भक्तचित्ताब्जचारिन्
जय जय नयचारिन् दृप्तमत्तारिमारिन् ।
जय जय जयशालिन् पाहि नः शूरसिंह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ १ ॥

असुरसमरधीरस्त्वं महात्मासि जिष्णो
अमरविसरवीरस्त्वं परात्मासि विष्णो ।
सदयहृदय गोप्ता त्वन्न चान्यो विमोह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ २ ॥

खरतरनखरास्त्रं स्वारिहत्यै विधत्से
परतरवरहस्तं स्वावनायैव धत्से ।
भवभयभयकर्ता कोऽपरास्तार्क्ष्यवाह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ३ ॥

असुरकुलबलारिः स्वेष्टचेतस्तमोऽरिः
सकलखलबलारिस्त्वं स्वभक्तारिवैरी ।
त्वदित स इनदृक् सत्पक्षपाती न चेह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ४ ॥

सकलसुरबलारिः प्राणिमात्रापकारी
तव भजकवरारिर्धर्मविध्वंसकारी ।
सुरवरवरदृप्तः सोऽप्यरिस्ते हतो ह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ५ ॥

दहनादहहाब्धिपातना-
-द्गरदानाद्भृगुपातनादपि ।
निजभक्त इहावितो यथा
नरसिंहापि सदाव नस्तथा ॥ ६ ॥

निजभृत्यविभाषितं मितं
खलु कर्तुं त्वमृतं दयाकर ।
प्रकटीकृतमिध्ममध्यतो
निजरूपं नरसिंह धीश्वर ॥ ७ ॥

नाराधनं न हवनं न तपो जपो वा
तीर्थं व्रतं न च कृतं श्रवणादि नो वा ।
सेवा कुटुम्बभरणाय कृतादिदीना
दीनार्तिहन् नरहरेऽघहरे ह नोऽव ॥ ८ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री नरसिंह स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed