Sri Mahalakshmi Chaturvimsati Nama Stotram – श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम्


देवा ऊचुः ।
नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः ।
नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥ १ ॥

प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः ।
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥ २ ॥

विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः ।
पक्वबिल्वफलापीनतुङ्गस्तन्यै नमो नमः ॥ ३ ॥

सुरक्तपद्मपत्राभकरपादतले शुभे ।
सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभिते ।
यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले ॥ ४ ॥

माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ।
ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे ॥ ५ ॥

पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ।
ऋग्यजुस्सामरूपायै विद्यायै ते नमो नमः ॥ ६ ॥

प्रसीदास्मान् कृपादृष्टिपातैरालोकयाब्धिजे ।
ये दृष्टास्ते त्वया ब्रह्मरुद्रेन्द्रत्वं समाप्नुयुः ॥ ७ ॥

इति श्रीवराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये नवमोऽध्याये देवादिकृत श्रीलक्ष्मीस्तुतिर्नाम महालक्ष्मीचतुर्विंशतिनामस्तोत्रम् ॥


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed