Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मूलाधारे वारिजपत्रे चतुरस्रं
वं शं षं सं वर्णविशालैः सुविशालैः ।
रक्तं वर्णं श्रीगणनाथं भगवतं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ १ ॥
स्वाधिष्ठाने षड्दलपत्रे तनुलिङ्गे
बालां तावद्वर्णविशालैः सुविशालैः ।
पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ २ ॥
नाभौपद्मे पत्रदशाब्दे ड फ वर्णे
लक्ष्मीकान्तं गरुडारूढं नरवीरम् ।
नीलं वर्णं निर्गुणरूपं निगमान्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ३ ॥
हृत्पद्मान्ते द्वादशपत्रे क ठ वर्णे
साम्बं शैवं हंसविशेषं शमयन्तम् ।
सर्गस्थित्यन्तं कुर्वन्तं शिवशक्तिं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ४ ॥
कण्ठस्थाने चक्रविशुद्धे कमलान्ते
चन्द्राकारे षोडशपत्रे स्वरवर्णे ।
मायाधीशं बीजशिवं तं निजरूपं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ५ ॥
आज्ञाचक्रे भृकुटिस्थाने द्विदलान्ते
हं क्षं बीजं ज्ञानसमुद्रं गुरुमूर्तिम् ।
विद्युद्वर्णं ज्ञानमयं तं निटिलाक्षं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ६ ॥
मूर्ध्निस्थाने वारिजपत्रे शशिबीजे
शुभ्रं वर्णं पद्मसहस्रं सुविशालम् ।
हं बीजाख्यं वर्णसहस्रं तुरीयान्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ७ ॥
ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
ब्रह्मज्ञानं सत्यमनन्तं भवरूपम् ।
पूर्णं चिद्घनपञ्चमखण्डं शिवरूपं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ८ ॥
शान्ताकारं शेषशयानं सुरवन्द्यं
कान्तानाथं कोमलगात्रं कमलाक्षम् ।
चिन्तारत्नं चिद्घनपूर्णं द्विजराजं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ९ ॥
इति श्रीमच्छङ्कराचार्यविरचितं अजपाजपस्तोत्रं नाम श्री दत्तात्रेय अष्टचक्रबीज स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.