Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(पुस्तक: यह स्तोत्र “प्रभात स्तोत्रनिधि (देवनागरी)” पुस्तकमें मुद्रित है । Click here to buy.)
जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ १ ॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ २ ॥
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ ३ ॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥ ४ ॥
नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥ ५ ॥
रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ।
दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥ ६ ॥
नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नमन्ति त्वां जगदानन्ददायिनि ॥ ७ ॥
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तिहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥ ८ ॥
अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
चञ्चलायै नमस्तुभ्यं ललितायै नमो नमः ॥ ९ ॥
नमः प्रद्युम्नजननि मातस्तुभ्यं नमो नमः ।
परिपालय मां मातः मां तुभ्यं शरणागतम् ॥ १० ॥
शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥ ११ ॥
पाण्डित्यं शोभते नैव न शोभन्ते गुणा नरे ।
शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना ॥ १२ ॥
तावद्विराजते रूपं तावच्छीलं विराजते ।
तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥ १३ ॥
लक्ष्मि त्वयाऽलङ्कृतमानवा ये
पापैर्विमुक्ता नृपलोकमान्याः ।
गुणैर्विहीना गुणिनो भवन्ति
दुश्शीलिनः शीलवतां वरिष्ठाः ॥ १४ ॥
लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् ।
लक्ष्मीर्भूषयते विद्यां सर्वा लक्ष्मीर्विशिष्यते ॥ १५ ॥
लक्ष्मी त्वद्गुणकीर्तनेन कमला भूर्यात्यलं जिह्मताम्
रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः ।
अस्माभिस्तव रूपलक्षणगुणान्वक्तुं कथं शक्यते
मातर्मां परिपाहि विश्वजननी कृत्वा ममेष्टं ध्रुवम् ॥ १६ ॥
दीनार्तिभीतं भवतापपीडितं
धनैर्विहीनं तव पार्श्वमागतम् ।
कृपानिधित्वान्मम लक्ष्मि सत्वरं
धनप्रदानाद्धननायकं कुरु ॥ १७ ॥
मां विलोक्य जननी हरिप्रिये
निर्धनं तव समीपमागतम् ।
देहि मे झटिति लक्ष्मि कराग्रं
वस्त्रकाञ्चनवरान्नमद्भुतम् ॥ १८ ॥
त्वमेव जननी लक्ष्मीः पिता लक्ष्मीस्त्वमेव च ।
भ्राता त्वं च सखा लक्ष्मीर्विद्या लक्ष्मीस्त्वमेव च ॥ १९ ॥
त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि ।
त्राहि त्राहि जगन्मातः दारिद्र्यात्त्राहि वेगतः ॥ २० ॥
नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।
धर्माधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी ॥ २१ ॥
दारिद्र्यार्णवमग्नोऽहं निमग्नोऽहं रसातले ।
मज्जन्तं मां करे धृत्वा तूद्धर त्वं रमे द्रुतम् ॥ २२ ॥
किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।
अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥ २३ ॥
एतच्छ्रुत्वाऽगस्त्यवाक्यं हृष्यमाणा हरिप्रिया ।
उवाच मधुरां वाणीं तुष्टाऽहं तव सर्वदा ॥ २४ ॥
श्रीलक्ष्मीरुवाच ।
यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।
शृणोति च महाभागस्तस्याहं वशवर्तिनी ॥ २५ ॥
नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति ।
ऋणं च नश्यते तीव्रं वियोगं नैव पश्यति ॥ २६ ॥
यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः ।
गृहे तस्य सदा तिष्टेन्नित्यं श्रीः पतिना सह ॥ २७ ॥
सुखसौभाग्यसम्पन्नो मनस्वी बुद्धिमान्भवेत् ।
पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥ २८ ॥
इदं स्तोत्रं महापुण्यं लक्ष्म्यागस्त्यप्रकीर्तितम् ।
विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥ २९ ॥
राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।
भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥ ३० ॥
न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते ।
दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥ ३१ ॥
मन्दुराकरिशालासु गवां गोष्ठे समाहितः ।
पठेत्तद्दोषशान्त्यर्थं महापातकनाशनम् ॥ ३२ ॥
सर्वसौख्यकरं नॄणामायुरारोग्यदं तथा ।
अगस्त्यमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥ ३३ ॥
इत्यगस्त्यविरचितं श्री लक्ष्मी स्तोत्रम् ।
टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।
प्रभात स्तोत्रनिधि
( पारायण ग्रन्थम् )
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.


