Sri Lakshmana Kavacham – श्री लक्ष्मण कवचम्

अगस्त्य उवाच ।
सौमित्रिं रघुनायकस्य चरणद्वन्द्वेक्षणं श्यामलं
बिभ्रन्तं स्वकरेण रामशिरसि च्छत्रं विचित्राम्बरम् ।
बिभ्रन्तं रघुनायकस्य सुमहत्कोदण्डबाणासने
तं वन्दे कमलेक्षणं जनकजावाक्ये सदा तत्परम् ॥ १ ॥

ओं अस्य श्रीलक्ष्मणकवचमन्त्रस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः श्रीलक्ष्मणो देवता शेष इति बीजं सुमित्रानन्दन इति शक्तिः रामानुज इति कीलकं रामदास इत्यस्त्रं रघुवंशज इति कवचं सौमित्रिरिति मन्त्रः श्रीलक्ष्मणप्रीत्यर्थं सकलमनोऽभिलषितसिद्ध्यर्थं जपे विनियोगः ।

अथ करन्यासः ।
ओं लक्ष्मणाय अङ्गुष्ठाभ्यां नमः ।
ओं शेषाय तर्जनीभ्यां नमः ।
ओं सुमित्रानन्दनाय मध्यमाभ्यां नमः ।
ओं रामानुजाय अनामिकाभ्यां नमः ।
ओं रामदासाय कनिष्ठिकाभ्यां नमः ।
ओं रघुवंशजाय करतलकरपृष्ठाभ्यां नमः ।

अथ अङ्गन्यासः ।
ओं लक्ष्मणाय हृदयाय नमः ।
ओं शेषाय शिरसे स्वाहा ।
ओं सुमित्रानन्दनाय शिखायै वषट् ।
ओं रामानुजाय कवचाय हुम् ।
ओं रामदासाय नेत्रत्रयाय वौषट् ।
ओं रघुवंशजाय अस्त्राय फट् ।
ओं सौमित्रये इति दिग्बन्धः ।

अथ ध्यानम् ।
रामपृष्ठस्थितं रम्यं रत्नकुण्डलधारिणम् ।
नीलोत्पलदलश्यामं रत्नकङ्कणमण्डितम् ॥ १ ॥

रामस्य मस्तके दिव्यं बिभ्रन्तं छत्रमुत्तमम् ।
वरपीताम्बरधरं मुकुटे नातिशोभितम् ॥ २ ॥

तूणीरं कार्मुकं चापि बिभ्रन्तं च स्मिताननम् ।
रत्नमालाधरं दिव्यं पुष्पमालाविराजितम् ॥ ३ ॥

एवं ध्यात्वा लक्ष्मणं च राघवन्यस्तलोचनम् ।
कवचं जपनीयं हि ततो भक्त्यात्र मानवैः ॥ ४ ॥

अथ कवचम् ।
लक्ष्मणः पातु मे पूर्वे दक्षिणे राघवानुजः ।
प्रतीच्यां पातु सौमित्रिः पातूदीच्यां रघूत्तमः ॥ ५ ॥

अधः पातु महावीरश्चोर्ध्वं पातु नृपात्मजः ।
मध्ये पातु रामदासः सर्वतः सत्यपालकः ॥ ६ ॥

स्मिताननः शिरः पातु भालं पातूर्मिलाधवः ।
भ्रुवोर्मध्ये धनुर्धारी सुमित्रानन्दनोऽक्षिणी ॥ ७ ॥

कपोले राममन्त्री च सर्वदा पातु वै मम ।
कर्णमूले सदा पातु कबन्धभुजखण्डनः ॥ ८ ॥

नासाग्रं मे सदा पातु सुमित्रानन्दवर्धनः ।
रामन्यस्तेक्षणः पातु सदा मेऽत्र मुखं भुवि ॥ ९ ॥

सीतावाक्यकरः पातु मम वाणीं सदाऽत्र हि ।
सौम्यरूपः पातु जिह्वामनन्तः पातु मे द्विजान् ॥ १० ॥

चिबुकं पातु रक्षोघ्नः कण्ठं पात्वसुरार्दनः ।
स्कन्धौ पातु जितारातिर्भुजौ पङ्कजलोचनः ॥ ११ ॥

करौ कङ्कणधारी च नखान् रक्तनखोऽवतु ।
कुक्षिं पातु विनिद्रो मे वक्षः पातु जितेन्द्रियः ॥ १२ ॥

पार्श्वे राघवपृष्ठस्थः पृष्ठदेशं मनोरमः ।
नाभिं गम्भीरनाभिस्तु कटिं च रुक्ममेखलः ॥ १३ ॥

गुह्यं पातु सहस्रास्यः पातु लिङ्गं हरिप्रियः ।
ऊरू पातु विष्णुतुल्यः सुमुखोऽवतु जानुनी ॥ १४ ॥

नागेन्द्रः पातु मे जङ्घे गुल्फौ नूपुरवान्मम ।
पादावङ्गदतातोऽव्यात् पात्वङ्गानि सुलोचनः ॥ १५ ॥

चित्रकेतुपिता पातु मम पादाङ्गुलीः सदा ।८
रोमाणि मे सदा पातु रविवंशसमुद्भवः ॥ १६ ॥

दशरथसुतः पातु निशायां मम सादरम् ।
भूगोलधारी मां पातु दिवसे दिवसे सदा ॥ १७ ॥

सर्वकालेषु मामिन्द्रजिद्धन्ताऽवतु सर्वदा ।
एवं सौमित्रिकवचं सुतीक्ष्ण कथितं मया ॥ १८ ॥

इदं प्रातः समुत्थाय ये पठन्त्यत्र मानवाः ।
ते धन्या मानवा लोके तेषां च सफलो भवः ॥ १९ ॥

सौमित्रेः कवचस्यास्य पठनान्निश्चयेन हि ।
पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ॥ २० ॥

पत्नीकामो लभेत्पत्नीं गोधनार्थी तु गोधनम् ।
धान्यार्थी प्राप्नुयाद्धान्यं राज्यार्थी राज्यमाप्नुयात् ॥ २१ ॥

पठितं रामकवचं सौमित्रिकवचं विना ।
घृतेन हीनं नैवेद्यं तेन दत्तं न संशयः ॥ २२ ॥

केवलं रामकवचं पठितं मानवैर्यदि ।
तत्पाठेन तु सन्तुष्टो न भवेद्रघुनन्दनः ॥ २३ ॥

अतः प्रयत्नतश्चेदं सौमित्रिकवचं नरैः ।
पठनीयं सर्वदैव सर्ववाञ्छितदायकम् ॥ २४ ॥

इति श्रीमदानन्दरामायणे सुतीक्ष्णागस्त्यसंवादे श्रीलक्ष्मणकवचम् ।

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: