Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्वामिनीचिन्तया चित्तखेदखिन्न मुखाम्बुजः ।
निमीलन्नेत्रयुगलः श्रीकृष्णश्शरणं मम ॥ १ ॥
मनोजभावभरितो भावयन्मनसा रतिम् ।
मीलनव्याकुलमनाः श्रीकृष्णश्शरणं मम ॥ २ ॥
निश्श्वासशुष्यद्वदनो मधुराधरपल्लवः ।
मुरलीनादनिरतः श्रीकृष्णश्शरणं मम ॥ ३ ॥
निकुञ्जमन्दिरान्तस्थ-स्सुमपल्लवतल्पकृत् ।
प्रतीक्षमाणस्स्वप्राप्तिं श्रीकृष्णश्शरणं मम ॥ ४ ॥
वियोगभावविहस-द्वदनाम्बुजसुन्दरः ।
आकर्णयन्नलिरुतं श्रीकृष्णश्शरणं मम ॥ ५ ॥
मुञ्चन्नश्रूणि विलुठन् गायन्मत्त इव क्वचित् ।
नृत्यन् रसासक्तमनाः श्रीकृष्णश्शरणं मम ॥ ६ ॥
शयान एकतस्तल्पे स्वप्नसम्बन्धसिद्धये ।
प्रबोधपश्चात्तप्तो यः श्रीकृष्णश्शरणं मम ॥ ७ ॥
रसात्मरसरीतिज्ञो रसलीलापरायणः ।
रसात्मगोपीरसिकः श्रीकृष्णश्शरणं मम ॥ ८ ॥
इति श्रीहतिरायाचार्यविरचितं श्रीकृष्णशरणाष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.