Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ईश्वर उवाच ।
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्य विज्ञानमात्रेण भवेत्साक्षात्सदाशिवः ॥ १ ॥
नार्चनं तस्य देवेशि मन्त्रमात्रं जपेन्नरः ।
स भवेत्पार्वतीपुत्रः सर्वशास्त्रेषु पारगः ।
विद्यार्थिना सदा सेव्या विशेषे विष्णुवल्लभा ॥ २ ॥
अस्याश्चतुरक्षरिविष्णुवनितारूपायाः कवचस्य श्रीभगवान् शिव ऋषिरनुष्टुप्छन्दो, वाग्भवी देवता, वाग्भवं बीजं, लज्जा शक्तिः, रमा कीलकं, कामबीजात्मकं कवचं, मम सुपाण्डित्य कवित्व सर्वसिद्धिसमृद्धये जपे विनियोगः ॥
अथ कवचम् ।
ऐङ्कारी मस्तके पातु वाग्भवी सर्वसिद्धिदा ।
ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ १ ॥
जिह्वायां मुखवृत्ते च कर्णयोर्गण्डयोर्नसि ।
ओष्ठाधरे दन्तपङ्क्तौ तालुमूले हनौ पुनः ॥ २ ॥
पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ।
कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ॥ ३ ॥
हृदये मणिबन्धे च ग्रीवायां पार्श्वयोः पुनः ।
सर्वाङ्गे पातु कामेशी महादेवी समुन्नतिः ॥ ४ ॥
व्युष्टिः पातु महामाया उत्कृष्टिः सर्वदाऽवतु ।
सन्धिं पातु सदा देवी सर्वत्र शम्भुवल्लभा ॥ ५ ॥
वाग्भवी सर्वदा पातु पातु मां हरिगेहिनी ।
रमा पातु सदा देवी पातु माया स्वराट् स्वयम् ॥ ६ ॥
सर्वाङ्गे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी ।
विजया पातु भवने जया पातु सदा मम ॥ ७ ॥
शिवदूती सदा पातु सुन्दरी पातु सर्वदा ।
भैरवी पातु सर्वत्र भैरुण्डा सर्वदाऽवतु ॥ ८ ॥
त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु ।
पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु ॥ ९ ॥
नवदुर्गा सदा पातु कामाख्या सर्वदाऽवतु ।
योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम ॥ १० ॥
मातरः पान्तु देव्यश्च चक्रस्था योगिनीगणाः ।
सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा ॥ ११ ॥
पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ।
इति ते कथितं दिव्यं कवचं सर्वसिद्धये ॥ १२ ॥
यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् ।
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥ १३ ॥
न्यूनाङ्गे अतिरिक्ताङ्गे दर्शयेन्न कदाचन ।
न स्तवं दर्शयेद्दिव्यं सन्दर्श्य शिवहा भवेत् ॥ १४ ॥
कुलीनाय महोच्छ्राय दुर्गाभक्तिपराय च ।
वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् ॥ १५ ॥
निजशिष्याय शान्ताय धनिने ज्ञानिने तथा ।
दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम् ॥ १६ ॥
विलिख्य कवचं दिव्यं स्वयम्भुकुसुमैः शुभैः ।
स्वशुक्रैः परशुक्रैश्च नानागन्धसमन्वितैः ॥ १७ ॥
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा ।
सुतिथौ शुभयोगे वा श्रवणायां रवेर्दिने ॥ १८ ॥
अश्विन्यां कृत्तिकायां वा फल्गुन्यां वा मघासु च ।
पूर्वभाद्रपदायोगे स्वात्यां मङ्गलवासरे ॥ १९ ॥
विलिखेत् प्रपठेत् स्तोत्रं शुभयोगे सुरालये ।
आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः ॥ २० ॥
इन्द्रयोगे शुभयोगे शुक्रयोगे तथैव च ।
कौलवे बालवे चैव वणिजे चैव सत्तमः ॥ २१ ॥
शून्यागारे श्मशाने वा विजने च विशेषतः ।
कुमारीं पूजयित्वादौ यजेद्देवीं सनातनीम् ॥ २२ ॥
मत्स्यमांसैः शाकसूपैः पूजयेत्परदेवताम् ।
घृताद्यैः सोपकरणैः पूपसूपैर्विशेषतः ॥ २३ ॥
ब्राह्मणान्भोजायित्वादौ प्रीणयेत्परमेश्वरीम् ।
बहुना किमिहोक्तेन कृते त्वेवं दिनत्रयम् ॥ २४ ॥
तदाधरेन्महारक्षां शङ्करेणाभिभाषितम् ।
मारणद्वेषणादीनि लभते नात्र संशयः ॥ २५ ॥
स भवेत्पार्वतीपुत्रः सर्वशास्त्रविशारदः ।
गुरुर्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ॥ २६ ॥
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः ।
सर्वदेवमयीं देवीं सर्वमन्त्रमयीं तथा ॥ २७ ॥
सुभक्त्या पूजयेद्यस्तु स भवेत्कमलाप्रियः ।
रक्तपुष्पैस्तथा गन्धैर्वस्त्रालङ्करणैस्तथा ॥ २८ ॥
भक्त्या यः पूजयेद्देवीं लभते परमां गतिम् ।
नारी वा पुरुषो वापि यः पठेत्कवचं शुभम् ।
मन्त्रसिद्धिः कार्यसिद्धिर्लभते नात्र संशयः ॥ २९ ॥
पठति य इह मर्त्यो नित्यमार्द्रान्तरात्मा
जपफलमनुमेयं लप्स्यते यद्विधेयम् ।
स भवति पदमुच्चैः सम्पदां पादनम्रः
क्षितिपमुकुटलक्ष्मीर्लक्षणानां चिराय ॥ ३० ॥
इति श्रीविश्वसारतन्त्रोक्तं चतुरक्षरी विष्णुवनिता कवचं नाम श्री कमला कवचम् ।
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.