Sri Kamalambika Stotram – श्री कमलाम्बिका स्तोत्रम्


बन्धूकद्युतिमिन्दुबिम्बवदनां बृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १ ॥

श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २ ॥

माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३ ॥

बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां
सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् ।
कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ४ ॥

आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां
ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् ।
ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ५ ॥

षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां
षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् ।
षट्कालेन समर्चितात्मविभवां षड्वर्गसञ्छेदिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ६ ॥

योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां
एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् ।
वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ७ ॥

बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां
श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् ।
भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ८ ॥

इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यः सदा
पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् ।
एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं
योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ ९ ॥

इति श्री कमलाम्बिका स्तोत्रम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed