Sri Ganesha Kilaka Stotram – श्री गणेश कीलक स्तोत्रम्


दक्ष उवाच ।
गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् ।
मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ १ ॥

मुद्गल उवाच ।
कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः ।
आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २ ॥

तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः ।
भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ ३ ॥

समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् ।
सिद्धिदं वै गणेशस्य कीलकं शृणु मानद ॥ ४ ॥

अस्य श्रीगणेशकीलकस्य शिव ऋषिः । अनुष्टुप्छन्दः । श्रीगणपतिर्देवता । ओं गं योगाय स्वाहा । ओं गं बीजम् । विद्याऽविद्याशक्तिगणपति प्रीत्यर्थे जपे विनियोगः । छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् । एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५ ॥

ततो ध्यायेद्गणेशानं ज्योतीरूपधरं परम् ।
मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ ६ ॥

शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते ।
विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७ ॥

एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक् ।
पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८ ॥

एकविंशतिवारं तु जपं कुर्यात्प्रजापते ।
ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत् ॥ ९ ॥

रूपं बलं श्रियं देहि यशो वीर्यं गजानन ।
मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ १० ॥

यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः ।
तदा त्वं तान्निहत्य स्म करोषि वीर्यसम्युतान् ॥ ११ ॥

तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः ।
शापैश्च तान् सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२ ॥

शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो ।
ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३ ॥

चराचरं जगत्सर्वं सत्ताहीनं यदा भवेत् ।
त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४ ॥

तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप ।
स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५ ॥

ब्रह्माणि योगहीनानि जातानि स्मरणेन ते ।
यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६ ॥

इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो ।
सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ १७ ॥

तथा मन्त्रा गणेशान वीर्यहीना बभूविरे ।
स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान् कुरुष्व ते ॥ १८ ॥

सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो ।
मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ १९ ॥

उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः ।
सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ २० ॥

गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने ।
स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१ ॥

गणेशकीलकमिदं कथितं ते प्रजापते ।
शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ २२ ॥

यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् ।
स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ २३ ॥

एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा ।
स सर्वफलहीनश्च जायते नात्र संशयः ॥ २४ ॥

सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतम् ।
पुरानेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ २५ ॥

विष्णुब्रह्मादयो देवा मुनयो योगिनः परे ।
अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६ ॥

ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः ।
गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ २७ ॥

सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु ।
गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ २८ ॥

दक्ष उवाच ।
ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् ।
ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम् ॥ २९ ॥

पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते ।
अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३० ॥

मुद्गलवाच ।
विमानस्थः स्वयं राजा कृपया तान् ददर्श ह ।
गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ ३१ ॥

स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे ।
योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२ ॥

एतत्ते कथितं सर्वमैलस्य चरितं शुभम् ।
यः शृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम् ॥ ३३ ॥

इति श्रीमुद्गलमहापुराणे पञ्चमेखण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्याये श्रीगणेशकीलकस्तोत्रं सम्पूर्णम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed