Sri Ganesha Ashtakam (Vyasa Krutam) – श्री गणेशाष्टकम् (व्यास कृतम्)


गणपतिपरिवारं चारुकेयूरहारं
गिरिधरवरसारं योगिनीचक्रचारम् ।
भवभयपरिहारं दुःखदारिद्र्यदूरं
गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ १ ॥

अखिलमलविनाशं पाणिना हस्तपाशं
कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् ।
भज भवगिरिनाशं मालतीतीरवासं
गणपतिमभिवन्दे मानसे राजहंसम् ॥ २ ॥

विविधमणिमयूखैः शोभमानं विदूरैः
कनकरचितचित्रं कण्ठदेशे विचित्रम् ।
दधति विमलहारं सर्वदा यत्नसारं
गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३ ॥

दुरितगजममन्दं वारुणीं चैव वेदं
विदितमखिलनादं नृत्यमानन्दकन्दम् ।
दधति शशिसुवक्त्रं चाङ्कुशं यो विशेषं
गणपतिमभिवन्दे सर्वदानन्दकन्दम् ॥ ४ ॥

त्रिनयनयुतफाले शोभमाने विशाले
मुकुटमणिसुढाले मौक्तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले
गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥ ५ ॥

वपुषि महति रूपं पीठमादौ सुदीपं
तदुपरि रसकोणं तस्य चोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं
गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥ ६ ॥

वरदविशदशस्तं दक्षिणं यस्य हस्तं
सदयमभयदं तं चिन्तये चित्तसंस्थम् ।
शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं
गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७ ॥

कल्पद्रुमाधः स्थितकामधेनुं
चिन्तामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भुत चित्ररूपं
यः पूजयेत्तस्य समस्तसिद्धिः ॥ ८ ॥

व्यासाष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् ।
पठतां दुःखनाशाय विद्यां सश्रियमश्नुते ॥ ९ ॥

इति श्रीपद्मपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed