Sri Ganesha Bahya Puja – श्री गणेश बाह्य पूजा



ऐल उवाच ।
बाह्यपूजां वद विभो गृत्समदप्रकीर्तिताम् ।
तेन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ १ ॥

गार्ग्य उवाच ।
आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः ।
बाह्यां चकार विधिवत्तां शृणुष्व सुखप्रदाम् ॥ २ ॥

हृदि ध्यात्वा गणेशानं परिवारादिसम्युतम् ।
नासिकारन्ध्रमार्गेण तं बाह्याङ्गं चकार ह ॥ ३ ॥

आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् ।
पश्चाच्छ्लोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४ ॥

गृत्समद उवाच ।
चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् ।
पाशाङ्कुशादिसम्युक्तं मायायुक्तं प्रचिन्तयेत् ॥ ५ ॥

आगच्छ ब्रह्मणां नाथ सुराऽसुरवरार्चित ।
सिद्धिबुद्ध्यादिसम्युक्त भक्तिग्रहणलालस ॥ ६ ॥

कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो ।
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७ ॥

रत्नसिंहासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषतः ॥ ८ ॥

सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो ।
शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९ ॥

सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।
आचमनं च तेनैव कुरुष्व गणनायक ॥ १० ॥

रत्नप्रवालमुक्ताद्यैरनर्घ्यैः संस्कृतं प्रभो ।
अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११ ॥

दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसम्युक्तं मया दत्तं नमोऽस्तु ते ॥ १२ ॥

पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे ।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥ १३ ॥

चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् ।
अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४ ॥

यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल ।
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५ ॥

नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः ।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ १६ ॥

कामधेनुसमद्भूतं पयः परमपावनम् ।
तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ १७ ॥

पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः ।
कुरु त्वं सर्वतीर्थेभ्यो गङ्गादिभ्यः समाहृतैः ॥ १८ ॥

दधि धेनुपयोद्भूतं मलापहरणं परम् ।
गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९ ॥

धेनोः समुद्भवं ढुण्ढे घृतं सन्तोषकारकम् ।
महामलापघातार्थं तेन स्नानं कुरु प्रभो ॥ २० ॥

सारघं संस्कृतं पूर्णं मधु मधुरसोद्भवम् ।
गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१ ॥

इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् ।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ २२ ॥

यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ।
आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३ ॥

ततो गन्धाक्षतादींश्च दूर्वाङ्कूरान्गजानन ।
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४ ॥

ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः ।
अभिषेकं करोमि ते गृहाण द्विरदानन ॥ २५ ॥

तत आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथं त्वं सर्वतीर्थभवेन वै ॥ २६ ॥

वस्त्रयुग्मं गृहाण त्वमनर्घं रक्तवर्णकम् ।
लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥ २७ ॥

उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा ।
गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८ ॥

उपवीतं गणाध्यक्ष गृहाण च ततः परम् ।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९ ॥

ततः सिन्दूरकं देव गृहाण गणनायक ।
अङ्गलेपनभावार्थं सदानन्दविवर्धनम् ॥ ३० ॥

नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥ ३१ ॥

अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन ।
द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२ ॥

रक्तचन्दनसम्युक्तानथवा कुङ्कुमैर्युतान् ।
अक्षतान्विघ्नराज त्वं गृहाण फालमण्डले ॥ ३३ ॥

चम्पकादिसुवृक्षेभ्यः सम्भूतानि गजानन ।
पुष्पाणि शमीमन्दारदूर्वादीनि गृहाण च ॥ ३४ ॥

दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् ।
गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५ ॥

नानाजातिभवं दीपं गृहाण गणनायक ।
अज्ञानमलजं दीपं हरन्तं ज्योतिरूपकम् ॥ ३६ ॥

चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् ।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७ ॥

सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् ।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ ३८ ॥

भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९ ॥

दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै ।
गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४० ॥

अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् ।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१ ॥

दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् ।
रत्नाद्यैः सम्युतां ढुण्ढे गृहाण सकलप्रिय ॥ ४२ ॥

राजोपचारकाद्यानि गृहाण गणनायक ।
दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३ ॥

तत आभरणं तेऽहमर्पयामि विधानतः ।
उपचारैश्च विविधैः तेन तुष्टो भव प्रभो ॥ ४४ ॥

ततो दूर्वाङ्कुरान्ढुण्ढे एकविंशतिसङ्ख्यकान् ।
गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ ४५ ॥

नानादीपसमायुक्तं नीराजनं गजानन ।
गृहाण भावसम्युक्तं सर्वाज्ञानविनाशन ॥ ४६ ॥

गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् ।
गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७ ॥

आर्तिक्यं च सुकर्पूरं नानादीपमयं प्रभो ।
गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥ ४८ ॥

पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो ।
एकं तु सप्तवारं वै सर्वाङ्गेषु निरञ्जनम् ॥ ४९ ॥

चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन ।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५० ॥

पञ्चप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणाधिप ।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१ ॥

एकविंशतिसङ्ख्यं वा त्रिसङ्ख्यं वा गजानन ।
प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२ ॥

साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् ।
हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृतम् ॥ ५३ ॥

न्यूनातिरिक्तभावार्थं किञ्चिद्दुर्वाङ्कुरान् प्रभो ।
समर्पयामि तेन त्वं साङ्गां पूजां कुरुष्व ताम् ॥ ५४ ॥

त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ।
शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५ ॥

अपराधानसङ्ख्यातान् क्षमस्व गणनायक ।
भक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा ॥ ५६ ॥

त्वं माता त्वं पिता मे वै सुहृत्सम्बन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ ५७ ॥

जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मनसैः कृतम् ।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥ ५८ ॥

बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् ।
गणेशपादतीर्थस्य मस्तके धारणात्किल ॥ ५९ ॥

पादोदकं गणेशस्य पीतं मर्त्येन तत्क्षणात् ।
सर्वान्तर्गतजं पापं नश्यति गणनातिगम् ॥ ६० ॥

गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु चर्चयेत् ।
गणेशतुल्यरूपः स दर्शनात्सर्वपापहा ॥ ६१ ॥

यदि गणेशपूजादौ गन्धभस्मादिकं चरेत् ।
अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत् ॥ ६२ ॥

द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत् ।
तेन सोऽपि गणेशेन समो भवति भूतले ॥ ६३ ॥

मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकम् ।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ ६४ ॥

वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् ।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५ ॥

बाहौ दक्षिणके चैव हेरम्बं वामबाहुके ।
विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥ ६६ ॥

कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् ।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७ ॥

सर्वाङ्गलेपनं शस्तं चित्रितमष्टगन्धकैः ।
गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ ६८ ॥

ततोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९ ॥

गणेश स्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदा मेऽस्तु गजानन ॥ ७० ॥

गार्ग्य उवाच ।
एवं गृत्समदश्चैव चकार बाह्यपूजनम् ।
त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ ७१ ॥

तथा कुरु महीपाल गाणपत्यो भविष्यसि ।
यथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ ७२ ॥

इति श्रीमदान्त्ये मौद्गल्ये गणेश बाह्य पूजा ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed