Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् ।
वरदाङ्घ्रिसदासङ्गरसायनपरायणम् ॥
देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् ।
रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥
नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचन ।
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥ १ ॥
समस्तप्राणिसन्त्राणप्रवीण करुणोल्बण ।
विलसन्तु कटाक्षास्ते मय्यस्मिन् जगतां पते ॥ २ ॥
निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः ।
पापीयांसममर्यादं पाहि मां वरदप्रभो ॥ ३ ॥
संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे ।
विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४ ॥
पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले ।
कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५ ॥
अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् ।
क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम् ॥ ६ ॥
सन्तप्तं विविधैर्दुःखैर्दुर्वचैरेवमादिभिः ।
देवराज दयासिन्धो देवदेव जगत्पते ॥ ७ ॥
त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः ।
कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥ ८ ॥
इति श्रीकाञ्चीपूर्ण विरचितं श्री देवराजाष्टकम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.