Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्रमन्त्रस्य परमहंस ऋषिः श्रीदत्तात्रेय परमात्मा देवता अनुष्टुप्छन्दः सकलकामनासिद्ध्यर्थे जपे विनियोगः ।
प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः ।
तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ १ ॥
पञ्चमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमङ्गलम् ।
सप्तमो पुण्डरीकाक्षो अष्टमो देववल्लभः ॥ २ ॥
नवमो नन्ददेवेशो दशमो नन्ददायकः ।
एकादशो महारुद्रो द्वादशो करुणाकरः ॥ ३ ॥
एतानि द्वादशनामानि दत्तात्रेय महात्मनः ।
मन्त्रराजेति विख्यातं दत्तात्रेय हरः परः ॥ ४ ॥
क्षयोपस्मार कुष्ठादि तापज्वरनिवारणम् ।
राजद्वारे पदे घोरे सङ्ग्रामेषु जलान्तरे ॥ ५ ॥
गिरे गुहान्तरेऽरण्ये व्याघ्रचोरभयादिषु ।
आवर्तने सहस्रेषु लभते वाञ्छितं फलम् ॥ ६ ॥
त्रिकाले यः पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात् ।
दत्तात्रेय सदा रक्षेत् यदा सत्यं न संशयः ॥ ७ ॥
विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते ।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ॥ ८ ॥
अभार्यो लभते भार्यां सुखार्थी लभते सुखम् ।
मुच्यते सर्वपापेभ्यो सर्वत्र विजयी भवेत् ॥ ९ ॥
इति श्री दत्तात्रेय द्वादशनाम स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.