Sri Datta Ashtakam 2 – श्री दत्ताष्टकम् – २


आदौ ब्रह्ममुनीश्वरं हरिहरं सत्त्वं रजस्तामसं
ब्रह्माण्डं च त्रिलोकपावनकरं त्रैमूर्तिरक्षाकरम् ।
भक्तानामभयार्थरूपसहितं सोऽहं स्वयं भावयन्
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ १ ॥

विश्वं विष्णुमयं स्वयं शिवमयं ब्रह्मा मुनीन्द्रामयं
ब्रह्मेन्द्रादिसुरोगणार्चितमयं सत्यं समुद्रामयम् ।
सप्तं लोकमयं स्वयं जनमयं मध्यादिवृक्षामयं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ २ ॥

आदित्यादिग्रहा स्वधा ऋषिगणं वेदोक्तमार्गे स्वयं
वेदं शास्त्रपुराणपुण्यकथितं ज्योतिस्वरूपं शिवम् ।
एवं शास्त्रस्वरूपया त्रयगुणैस्त्रैलोक्यरक्षाकरं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ३ ॥

उत्पत्तिस्थितिनाशकारणकरं कैवल्यमोक्षाकरं
कैलासादिनिवासिनं शशिधरं रुद्राक्षमालागलम् ।
हस्ते चाप धनुःशरांश्च मुसलं खट्वाङ्गचर्माधरं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ४ ॥

शुद्धं चित्तमयं सुवर्णमयदं बुद्धिं प्रकाशामयं
भोग्यं भोगमयं निराहतमयं मुक्तिप्रसन्नामयम् ।
दत्तं दत्तमयं दिगम्बरमयं ब्रह्माण्डसाक्षात्करं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ५ ॥

सोऽहंरूपमयं परात्परमयं निःसङ्गनिर्लिप्तकं
नित्यं शुद्धनिरञ्जनं निजगुरुं नित्योत्सवं मङ्गलम् ।
सत्यं ज्ञानमनन्तब्रह्महृदयं व्याप्तं परोदैवतं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ६ ॥

काषायं करदण्डधारपुरुषं रुद्राक्षमालागलं
भस्मोद्धूलितलोचनं कमलजं कोल्हापुरीभिक्षणम् ।
काशीस्नानजपादिकं यतिगुरुं तन्माहुरीवासितं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ७ ॥

कृष्णातीरनिवासिनं निजपदं भक्तार्थसिद्धिप्रदं
मुक्तिं दत्तदिगम्बरं यतिगुरुं नास्तीति लोकाञ्जनम् ।
सत्यं सत्यमसत्यलोकमहिमा प्राप्तव्यभाग्योदयं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ८ ॥

इति श्रीमच्छङ्कराचार्यविरचितं श्री दत्ताष्टकम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed