Sripada Ashtakam – श्रीपादाष्टकम्


वेदान्तवेद्यं वरयोगिरुपं
जगत्प्रकाशं सुरलोकपूज्यम् ।
इष्टार्थसिद्धिं करुणाकरेशं
श्रीपादराजं शरणं प्रपद्ये ॥ १ ॥

योगीशरुपं परमात्मवेषं
सदानुरागं सहकार्यरुपम् ।
वरप्रसादं विबुधैकसेव्यं
श्रीपादराजं शरणं प्रपद्ये ॥ २ ॥

काषायवस्त्रं करदण्डधारिणं
कमण्डलुं पद्मकरेण शङ्खम् ।
चक्रं गदाभूषित भूषणाढ्यं
श्रीपादराजं शरणं प्रपद्ये ॥ ३ ॥

भूलोकसारं भुवनैकनाथं
नाथादिनाथं नरलोकनाथम् ।
कृष्णावतारं करुणाकटाक्षं
श्रीपादराजं शरणं प्रपद्ये ॥ ४ ॥

लोकाभिरामं गुणभूषणाढ्यं
तेजो मुनिश्रेष्ठ मुनिं वरेण्यम् ।
समस्तदुःखानि भयानि शान्तं
श्रीपादराजं शरणं प्रपद्ये ॥ ५ ॥

कृष्णासुतीरे वसति प्रसिद्धं
श्रीपाद श्रीवल्लभ योगिमूर्तिम् ।
सर्वेजनैश्चिन्तितकल्पवृक्षं
श्रीपादराजं शरणं प्रपद्ये ॥ ६ ॥

मन्त्राब्धिराजं यतिराजपूज्यं
त्रैलोकनाथं जनसेव्यनाथम् ।
आनन्दचित्तं अखिलात्मतेजं
श्रीपादराजं शरणं प्रपद्ये ॥ ७ ॥

मन्त्रानुगम्यं महानिर्वितेजं
महत्प्रकाशं महाशान्तमूर्तिम् ।
त्रैलोक्यचित्तं अखिलात्मतेजं
श्रीपादराजं शरणं प्रपद्ये ॥ ८ ॥

श्रीपादाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतम्पापं स्मरणेन विनश्यति ॥ ९ ॥

इति श्रीपादाष्टकम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed