Sri Datta Shodasa Avatara Shlokah – श्री दत्त षोडशावतार ध्यान श्लोकाः


नमस्ते योगिराजेन्द्र दत्तात्रेय दयानिधे ।
स्मृतिं ते देहि मां रक्ष भक्तिं ते देहि मे धृतिम् ॥

१। योगिराज –
ओं योगिराजाय नमः ।
अद्वयानन्दरूपाय योगमायाधराय च ।
योगिराजाय देवाय श्रीदत्ताय नमो नमः ॥

२। अत्रिवरद –
ओं अत्रिवरदाय नमः ।
मालाकमण्डलुरधः कर पद्मयुग्मे
मध्यस्थपाणियुगले डमरु त्रिशूले ।
यन्यस्त ऊर्ध्वकरयोः शुभ शङ्ख चक्रे
वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥

३। दत्तात्रेय –
ओं दत्तात्रेयाय नमः ।
दत्तात्रेयं शिवं शान्तं इन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवं अवधूतं दिगम्बरम् ॥
भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् ।
चतुर्बाहुमुदाराङ्गं दत्तात्रेयं नमाम्यहम् ॥

४। कालाग्निशमन –
ओं कालाग्निशमनाय नमः ।
ज्ञानानन्दैक दीप्ताय कालाग्निशमनाय च ।
भक्तारिष्टविनाशाय नमोऽस्तु परमात्मने ॥

५। योगिजनवल्लभ –
ओं योगिजनवल्लभाय नमः ।
योगविज्जननाथाय भक्तानन्दकराय च ।
दत्तात्रेयाय देवाय तेजोरूपाय ते नमः ॥

६। लीलाविश्वम्भर –
ओं लीलाविश्वम्भराय नमः ।
पूर्णब्रह्मस्वरूपाय लीलाविश्वाम्भराय च ।
दत्तात्रेयाय देवाय नमोऽस्तु सर्वसाक्षिणे ॥

७। सिद्धराज –
ओं सिद्धराजाय नमः ।
सर्वसिद्धान्तसिद्धाय देवाय परमात्मने ।
सिद्धराजाय सिद्धाय मन्त्रदात्रे नमो नमः ॥

८। ज्ञानसागर –
ओं ज्ञानसागराय नमः ।
सर्वत्राऽज्ञाननाशाय ज्ञानदीपाय चात्मने ।
सच्चिदानन्दबोधाय श्रीदत्ताय नमो नमः ॥

९। विश्वम्भरावधूत –
ओं विश्वम्भरावधूताय नमः ।
विश्वम्भराय देवाय भक्तप्रियकराय च ।
भक्तप्रियाय देवाय नामप्रियाय ते नमः ॥

१०। मायामुक्तावधूत –
ओं मायामुक्तावधूताय नमः ।
मायामुक्ताय शुद्धाय मायागुणहराय ते ।
शुद्धबुद्धात्मरूपाय नमोऽस्तु परमात्मने ॥

११। मायायुक्तावधूत –
ओं मायायुक्तावधूताय नमः ।
स्वमायागुणगुप्ताय मुक्ताय परमात्मने ।
सर्वत्राऽज्ञाननाशाय देवदेवाय ते नमः ॥

१२। आदिगुरु –
ओं आदिगुरवे नमः ।
चिदात्मज्ञानरूपाय गुरवे ब्रह्मरूपिणे ।
दत्तात्रेयाय देवाय नमोऽस्तु परमात्मने ॥

१३। शिवरूप –
ओं शिवरूपाय नमः ।
संसारदुःखनाशाय हिताय परमात्मने । [शिवाय]
दत्तात्रेयाय देवाय नमोऽस्तु परमात्मने ॥

१४। देवदेव –
ओं देवदेवाय नमः ।
सर्वापराधनाशाय सर्वपापहराय च ।
दत्तात्रेयाय देवाय नमोऽस्तु परमात्मने ॥ [देवदेवाय]

१५। दिगम्बर –
ओं दिगम्बराय नमः ।
दुःखदुर्गतिनाशाय दत्ताय परमात्मने ।
दिगम्बराय शान्ताय नमोऽस्तु बुद्धिसाक्षिणे ॥

१६। कृष्णश्याम कमलनयन –
ओं कृष्णश्यामकमलनयनाय नमः ।
अखण्डाद्वैतरूपाय निर्गुणाय गुणात्मने ।
कृष्णाय पद्मनेत्राय नमोऽस्तु परमात्मने ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed