Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दत्तात्रेयं हरिं कृष्णं उन्मादं प्रणतोऽस्म्यहम् ।
आनन्ददायकं देवं मुनिबालं दिगम्बरम् ॥ १ ॥
पिशाचरूपिणं विष्णुं वन्देऽहं ज्ञानसागरम् ।
योगिनं भोगिनं नग्नं अनसूयात्मजं कविम् ॥ २ ॥
भोगमोक्षप्रदं वन्दे सर्वदेवस्वरूपिणम् ।
उरुक्रमं विशालाक्षं परमानन्दविग्रहम् ॥ ३ ॥
वरदं देवदेवेशं कार्तवीर्यवरप्रदम् ।
नानारूपधरं हृद्यं भक्तचिन्तामणिं गुरुम् ॥ ४ ॥
विश्ववन्द्यपदाम्भोजं योगिहृत्पद्मवासिनम् ।
प्रणतार्तिहरं गूढं कुत्सिताचारचेष्टितम् ॥ ५ ॥
मिताचारं मिताहारं भक्ष्याभक्ष्यविवर्जितम् ।
प्रमाणं प्राणनिलयं सर्वाधारं नतोऽस्म्यहम् ॥ ६ ॥
सिद्धसाधकसंसेव्यं कपिलं कृष्णपिङ्गलम् ।
विप्रवर्यं वेदविदं वेदवेद्यं वियत्समम् ॥ ७ ॥
पराशक्ति पदाश्लिष्टं राजराज्यप्रदं शिवम् ।
शुभदं सुन्दरग्रीवं सुशीलं शान्तविग्रहम् ॥ ८ ॥
योगिनं रामयास्पृष्टं रामारामं रमाप्रियम् ।
प्रणतोऽस्मि महादेवं शरणं भक्तवत्सलम् ॥ ९ ॥
वीरं वरेण्यं वृषभं वृषाचारं वृषप्रियम् ।
अलिप्तमनघं मेध्यं अनादिमगुणं परम् ॥ १० ॥
अनेकमेकमीशानं अनन्तमणिकेतनम् ।
अध्यक्षमसुरारातिं शमं शान्तं सनातनम् ॥ ११ ॥
गुह्यं गभीरं गहनं गुणज्ञं गह्वरप्रियम् ।
श्रीदं श्रीशं श्रीनिवासं श्रीवत्साङ्कं परायणम् ॥ १२ ॥
जपन्तं जपतां वन्द्यं जयन्तं विजयप्रदम् ।
जीवनं जगतस्सेतुं जनानां जातवेदसम् ॥ १३ ॥
यज्ञमिज्यं यज्ञभुजं यज्ञेशं याजकां यजुः ।
यष्टारं फलदं वन्दे साष्टाङ्गं परया मुदा ॥ १४ ॥
इति विष्णुदत्त कृत श्री दत्तात्रेय स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.