Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
चित्तजान्तकं चित्स्वरूपिणं
चन्द्रमृगधरं चर्मभीकरम् ।
चतुरभाषणं चिन्मयं गुरुं
भज चिदम्बरं भावनास्थितम् ॥ १ ॥
दक्षमर्दनं दैवशासनं
द्विजहिते रतं दोषभञ्जनम् ।
दुःखनाशनं दुरितशासनं
भज चिदम्बरं भावनास्थितम् ॥ २ ॥
बद्धपञ्चकं बहुलशोभितं
बुधवरैर्नुतं भस्मभूषितम् ।
भावयुक्स्तुतं बन्धुभिः स्तुतं
भज चिदम्बरं भावनास्थितम् ॥ ३ ॥
दीनतत्परं दिव्यवचनदं
दीक्षितापदं दिव्यतेजसम् ।
दीर्घशोभितं देहतत्त्वदं
भज चिदम्बरं भावनास्थितम् ॥ ४ ॥
क्षितितलोद्भवं क्षेमसम्भवं
क्षीणमानवं क्षिप्रसद्यवम् ।
क्षेमदात्रवं क्षेत्रगौरवं
भज चिदम्बरं भावनास्थितम् ॥ ५ ॥
तक्षभूषणं तत्त्वसाक्षिणं
यक्षसागणं भिक्षुरूपिणम् ।
भस्मपोषणं व्यक्तरूपिणं
भज चिदम्बरं भावनास्थितम् ॥ ६ ॥
यस्तु जापिकं चिदम्बराष्टकं
पठति नित्यकं पापहं सुखम् ।
कठिनतारकं घटकुलाधिकं
भज चिदम्बरं भावनास्थितम् ॥ ७ ॥
इति श्रीचिदम्बराष्टकम् ।
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री नटराज स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.