Sri Chidambara Panchachamara Stotram – श्री चिदम्बर पञ्चचामर स्तोत्रम्


कदम्बकाननप्रियं चिदम्बया विहारिणं
मदेभकुम्भगुम्फितस्वडिम्भलालनोत्सुकम् ।
सदम्भकामखण्डनं सदम्बुवाहिनीधरं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ १ ॥

समस्तभक्तपोषणस्वहस्तबद्धकङ्कणं
प्रशस्तकीर्तिवैभवं निरस्तसज्जनापदम् ।
करस्थमुक्तिसाधनं शिरःस्थचन्द्रमण्डनं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ २ ॥

जटाकिरीटमण्डितं निटाललोचनान्वितं
पटीकृताष्टदिक्तटं पटीरपङ्कलेपनम् ।
नटौघपूर्वभाविनं कुठारपाशधारिणं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ३ ॥

कुरङ्गशाबशोभितं चिरं गजाननार्चितं
पुराङ्गनाविचारदं वराङ्गरागरञ्जितम् ।
खराङ्गजातनाशकं तुरङ्गमीकृतागमं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ४ ॥

अमन्दभाग्यभाजनं सुमन्दहाससन्मुखं
सुमन्दमन्दगामिनीगिरीन्द्रकन्यकाधवम् ।
शमं दमं दयालुताममन्दयन्तमात्मनो
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ५ ॥

करीन्द्रचर्मवाससं गिरीन्द्रचापधारिणं
सुरेन्द्रमुख्यपूजितं खगेन्द्रवाहनप्रियम् ।
अहीन्द्रभूषणोज्ज्वलं नगेन्द्रजाविलासिनं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ६ ॥

मलापहारिणीतटे सदा विलासकारिणं
बलारिशापभञ्जनं ललामरूपलोचनम् ।
लसत्फणीन्द्रहारिणं ज्वलत्त्रिशूलधारिणं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ७ ॥

शशाङ्कभानुवीतिहोत्रराजितत्रिलोचनं
विशालवक्षसं सुदीर्घबाहुदण्डमण्डितम् ।
दिगम्बरोल्लसद्वपुर्धरं धरारथान्वितं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ८ ॥

सदन्तरङ्गसज्जनौघपापसङ्घनाशने
मदान्धयुक्तदुर्जनालिशिक्षणे विचक्षणः ।
चिदम्बराख्यसद्गुरुस्वरूपमेत्य भूतले
सदाशिवो विराजते सदा मुदान्वितो हरः ॥ ९ ॥

चिदम्बराख्यसद्गुरोरिदं सदा विलासिनं
मुदा लिखन्ति ये सकृत् सदोपमानमष्टकम् ।
सदा वसेत्तदालये हरिप्रिया तदानने
विधिप्रिया च निश्चला जगद्गुरोरनुग्रहात् ॥ १० ॥

इति श्री चिदम्बर पञ्चचामर स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री नटराज स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed