Naga Kavacham – नाग कवचम्


नागराजस्य देवस्य कवचं सर्वकामदम् ।
ऋषिरस्य महादेवो गायत्री छन्द ईरितः ॥ १ ॥

ताराबीजं शिवाशक्तिः क्रोधबीजस्तु कीलकः ।
देवता नागराजस्तु फणामणिविराजितः ॥ २ ॥

सर्वकामार्थ सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।
अनन्तो मे शिरः पातु कण्ठं सङ्कर्षणस्तथा ॥ ३ ॥

कर्कोटको नेत्रयुग्मं कपिलः कर्णयुग्मकम् ।
वक्षःस्थलं नागयक्षः बाहू कालभुजङ्गमः ॥ ४ ॥

उदरं धृतराष्ट्रश्च वज्रनागस्तु पृष्ठकम् ।
मर्माङ्गमश्वसेनस्तु पादावश्वतरोऽवतु ॥ ५ ॥

वासुकिः पातु मां प्राच्ये आग्नेयां तु धनञ्जयः ।
तक्षको दक्षिणे पातु नैरृत्यां शङ्खपालकः ॥ ६ ॥

महापद्मः प्रतीच्यां तु वायव्यां शङ्खनीलकः ।
उत्तरे कम्बलः पातु ईशान्यां नागभैरवः ॥ ७ ॥

ऊर्ध्वं चैरावतोऽधस्तात् नागभेतालनायकः ।
सदा सर्वत्र मां पातु नागलोकाधिनायकाः ॥ ८ ॥

इति नाग कवचम् ।


इतर नागदेवता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed